पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२
उत्तररामचरिते

 सीता--हो? अजउत्त, होदु । एहि । पेक्खा दाव दे चरिदम् । (इत्युत्थाय परिकामति ।)

 लक्ष्मण:-इदं तदालेख्यम् ।

 सीता--(निर्घ ।) के एंदे उवरिणिरन्तरद्विदा उक्त्थुवन्दि विष अजउत्तम् ।

 लक्ष्मणः-देवि, एतानि तानि सरहस्यानि जृम्भकास्त्राणि । यानि भगवतो भृशाश्वात्कौशिकमुपसंक्रान्तानि । तेन च ताटकावधे प्रसादीकृतान्यायस्य ।

 रामः--वन्दन देवि, दिव्यास्त्राणि ।

 ब्रह्मादयो ब्रह्महिताय तत्वा परःसहसं शरदां तपांसि ।
 एतान्यदर्शन्गुरवः पुराणाः खान्येव तेजांसि तपोमयानि ॥ १५ ॥


 १. भवत्वार्यपुत्र, भवतु । एहि । प्रेक्षामहे तावत्ते चरितम् ।

 २. क एते उपरिनिरन्तरस्थिता उपस्तुवन्तीवार्यपुत्रम् ।


प्रसिद्धा । चेत्तनाचेतनसाधारण्येन प्रसिद्धा । चेतनैरवचूडरूपेणाचेतनैः शाखाने च धारणात् । चरणैरवताइनानि न । न दृष्टानीलर्थः । अयं भावः-विविधानि तावत्कुसुमान्यवगन्तव्यानि । यानि कान्तिप्रधानानि, सौरभ्यप्रधानानि, उक्तोभयप्रधानानि चेति । लन्न कान्तिप्रधानानि शाल्मलीकुसुमादीनि, सौरभ्यप्रधानानि दमनकादीनि, उभयप्रधानानि मालतीप्रभृतीनि । तन्त्र सौरभ्यमात्रप्रधानस्यापि न चरणावताडनाईत्वम् । तस्य प्राणैकनिरन्तरानुभाव्यत्वात् । एवं नायस्यापि । तस्य दर्शनकानुभाव्यत्वात् । उपप्रधानस्य तु सुतरीन चरणावताडनाइत्वमिति । सुरभिणः कुसुमस्येति पदद्वयोपादानादित्यं व्याख्यातम् । अत्र 'न मुसलैः' इति केचित्पठन्ति । अत्र प्राज्ञस्य पूजनीयस्य लक्ष्मणस्यैकस्य सकृत्किचिद्वचनमुपमेयमुक्त्वा निहीन बहुतरचरणकरणकानामुपमानतावचनात् तादृशताडनजन्य सुरभिकुसुमस्थ यावदत्याहित ताबल्ल- क्ष्मणबचनजन्यं सीताया अत्याहितमिति व्यज्यते ॥ ३४॥ प्रेक्षामहे । पदयाम इत्यर्थः ॥ आलेख्यं चित्रम् ॥ उपरिनिरन्तरस्थिताः । अविरलं स्थिता अनुपविष्टा इलाशयः । तेषां दिव्यास्त्रत्वादुपरिस्थितियुतित्युपरिलेखनम् । उपस्तुवन्ति स्तोत्र कुर्वन्ति ॥ सरहस्यानि । प्रयोगप्रतिसंहारौपग्रिकमन्त्रादयो रहस्यानि । तत्सहितानीत्यर्थः । जुम्भकात्राणि भृशाश्वात्तन्नाम्नो मुनेः कौशिक विश्वामित्रमुपसंक्रान्तानि प्राप्तानि । उपसंकान्तानीति कर्तृप्रत्ययेन खयमेव तानि कौशिक प्राप्तानीति लभ्यते । तथा च-भूशाश्वः परःसहस्रपरिवत्सरान्तेवासिने कौशिकाय' इति वक्ष्यमाणं परःसहस्रपरिवत्सरान्तेवातित्वं जृम्भकास्त्ररूपफलगुरुत्वमपेक्ष्यासत्कल्पमिति हृदयम् । तेन च विश्वामित्रेण प्रसादीकृतानि । प्रसादतकार्यजम्भकाचयोरभेदाध्यवसायादित्थमुक्तम् । केवलप्रसादेन दत्तानीत्यर्थः । ब्रह्मादय इति । पुराणा ब्रह्मादयश्चतुर्मुखप्रभृतयः । गुरवस्तप उपदे-