पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४
उत्तररामचरिते

 लक्ष्मण:-आर्ये, पश्य पश्य ।

  संबन्धिनो वसिष्ठादीनेष तातस्तवार्चति ।
  गौतमश्च शतानन्दो जनकानां पुरोहितः ॥ १६ ॥

 राम:--सुश्लिष्टमेतत् ।

  जनकानां रघूणां च संबन्धः कस्य न प्रियः ।
  यत्र दाता ग्रहीता च खयं कुशिकनन्दनः ॥ १७ ॥


ताम् । मांसल स्फीत तेन । तथाविधेनेलर्थः। विशेषणसमासः। देहसौभाग्येन देहसौन्यग । किरिमता आश्चर्ययुक्ताः । अतएव स्तिमिता निश्चलास्तातासौर्दिश्यमाना सौम्या आह्लादकरी सुन्दरश्रीर्यस्य स तथोक्तः । प्राकृते आत्मनेपदाभावादीसन्तेत्युक्तिः । त्रुटितं भग्नं शरासन येन स तथोक्तः ॥ संबन्धिन इति । जनकानां जनकापत्यभूतानाम् । लाक्षणिकोऽयं शब्दः । पुरोहितो गौतमो गौतमपुत्रः । ऋष्यन्धकवृष्णिकुरुभ्यश्च' इत्यणप्रत्ययः । शतानन्दस्तनामा । तथा च—एष तव तातो वत्तिष्ठादीन्संयन्धिनोऽर्चति पूजयति । जनकानां पुरोहितो गौतमः शतानन्दथ्वार्चतीलनुषाः । यथाक्रम तक तातो जनकः संबन्धिनो दशरथप्रभृतीनर्चयति । जनकानां पुरोहितो गौत्तमः शतानन्दश्च बसियादीनत्रयति चेत्यन्वयः ॥१६॥ सुश्लिष्टमिति । हेमारविन्दपरिमलन्यायादिति भावः । जनकानामिति । जनकानां जनवान शोद्भवाना रघूणां रघुवशोद्भवानां च । लाक्षणिकोऽय शब्दः । संयन्धोउपत्यसंबन्धः । कस्य न प्रियः । सर्वस्यापि प्रिय इत्यर्थः । यत्र संबन्धे कुशिकनन्दनो विश्वामित्रः खय दाता स्वयं प्रतिग्रहीता । दशरथं प्रति दाता, जनकं प्रति प्रतिप्रहीता चेत्यर्थः । अचं भाव.-तब मम च परिणयरूपोऽय संबन्धो जनकदशरथयोराबयोर्जनानां च मध्ये कस्यचिदपि नाप्रियः । तथा हि-जनकानां रधूणामित्यनेन रघुवइपाजनकवश्यान्प्रति नाप्रियत्वमिति लभ्यते । अन्न निमीनामित्यनुक्त्या जनकानामिति पदोपादानेन 'कर्मणैत्र हि संसिद्धिमास्थिता जनकादयः' इति जनके प्रसिद्ध कर्मयोगशीलत्वमिह स्फोर्यते । एव काबुल्स्थानामित्खनुक्खा रघूण्यामित्युक्त्या 'श्रुतस्य चायादवमन्तमभकरतथापरेषां युधि चेति पार्थिवः' इत्यादि कालिदासनिरुक्त्या 'ल. शिबयोनलोपश्च' इलनुशासनेन च लब्ध्या लहूते जानाति सर्वमिति व्युत्पत्त्या 'मनुरिक्ष्याकवेऽनावीन्' इत्यैवालय रघुकुलासाधारणज्ञानयोगशीलत्वं सूच्यते । तथाचान्यादृशजनकविषये जातोऽपत्यसंबन्धः संवन्धिनामित्यभिमतो भवति । लत्र क्षीरशर्करावदन्योन्यसंपर्करमणीचज्ञानकर्मशीलजनकविषयत्वे तु तस्य हेमारबिन्दपरिमलचायेनातिलाध्यत्वमिति तान्नखप्रियत्वब्यावृत्तिः । अतएव चावां प्रत्यपि नात्रिचत्वं चत्र दातेल्लादिनापि जनकदशरथौ प्रत्लनियत्यं व्यावखते तत्र दशरथं प्रत्ययाचितोपनतत्वाऽलनकं प्रति दुष्करधनुर्भाप्रतिज्ञानिवर्तनरूपमहोपकारकरणाच गुर्वनुशाप्राप्तत्वान्महर्षिकारितत्याच नावां प्रत्यप्रियत्वम् । स्वयमित्यनेनानहादिमूलकत्रिशकयाजनहारेवन्द्रोपलवचाधुत्तिः । अतएव जनान्प्रत्यप्रियवं निरस्तम् । शि-