पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
उत्तररामचरिते

 सीता--अदो जेब राहवधुरंधरो' अजउत्तो ।

 राम:----कः कोऽत्र भोः । विश्राम्यतादष्टाचक्रः ।

 अशावक्र:-(उत्थाय परिक्रम्य च 1) अये, कुमारलक्ष्मणः प्राप्तः (इति निष्कान्तः।)

(प्रविश्य ।)

 लक्ष्मणः-जयति जयत्यार्यः । आर्य, अर्जुनेन चित्रकरणास्सदुपदिष्टमार्यस्य चरितमस्यां वीथ्यामभिलिखितम् । तत्पश्यत्वार्यः ।

 रामः—जानासि वत्स, दुर्मनायमानां देवीं विनोदयितुम् । तत्कियानवधिः।

 लक्ष्मणः-~-यावदार्याया हुताशनशुद्धिः ।

 राम:--शान्तं पापम् । (ससान्त्ववचनम् ।)

  उत्पत्तिपरिपूतायाः किमस्याः पावनान्तरैः ।
  तीर्थोदकं च वह्निश्च नान्यतः शुद्धिमर्हतः ॥ १३ ॥


१. अत एव राघवधुरंधर आर्यपुत्रः ॥


खभूयस्त्य ताबद्वर्तमानत्वात् । मन तु वर्तमानकालेऽपि न दुःखामेति वर्तमानार्थकमुक्त इति पदतो लभ्यते । व्यथेति सामान्यशब्देन मनोव्याधिरपि नेत्यर्थः ॥१२॥ राघवधुरंधरः । रधुवशश्रेष्ठ इत्यर्थः । राधवपदोपादान साभिप्रायकम् । शरणागतसंरक्षणभूतदयालोकाराधनकपररघुवंशजय तवेदमनुरूपमित्यभिप्रायः ॥ विश्राम्बताद्विश्रम प्राप्नोतु । आशिषि परस्मैपदलोटस्तातड् । 'विश्राम्यताम् इति पाठे तु परिजनैरिति शेषः । विधमवान्क्रियतामित्यर्थः । णिजन्तात्कर्मणि लोद ॥ अर्जुनेन तनाना । वीभ्यां चित्रमयशेण्याम् ॥ दुर्मनाचनानां दुःखितमनस्काम् । जनकस्य खदेशान्प्रति गमनादिति भावः । 'कर्तुः क्यङ्सलोपश्च' । डिस्वादात्मनेपदम् । शानच् । विनोदयितुं दु.खविस्मरणपूर्वक संतोष ग्राहयितुम् । 'नुद प्रेरणे' । उपसर्गबलेन उक्तार्थलाभः । तत्कियानवधिः । तदिसध्यनम् । तस्येत्यर्थः । अवधिरन्तः क्रियान् । किप्रमाणक इत्यर्थः । अनेकसंख्याकेषु मखापारेषु कीदृशसंख्यायुक्तोऽमस्यापारः । अस्य चित्रस्यायधिरित्यर्थ. ॥ यावदिति । हुताशनेन शुद्धिरिति विग्रहः । यावन्च्छब्दोऽधारणार्थकः । हुताशनशुद्धिर्थावत् । हुताशनशुद्धिरेवावधिरित्यर्थः । अवधिरिति पूर्वस्मादनपाः॥ शान्तं पापमिति। योऽथमलीकोपन्यासस्तस्य पीडाहेतुभूतपापशान्तिको भवस्विति तात्पर्यम् । लोकोक्तिरिय मिष्टजन प्रत्यनिष्टवचनाक्षमजनाशीर्वचनरूपा । ससान्त्ववचनम् । अत्यर्थमधुरवाक्स हितमित्यर्थः ॥ उत्पत्तीत्यादि । उत्पत्या परिपूतावाः परिशुद्धायाः । कृत्रिमत्वनिरासार्थमिदम् । स्वभावतो दोषप्रतिभटाया इसर्थः । अस्याः सीतायाः । पावयन्तीति पावनानि । मन्धादित्वाश्यप्रायः । अ-