पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९
प्रथमोऽङ्कः।


 राम: यथा समादिशति भगवान्मत्रावरुणिः ।

  स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।
  आराधनाय लोकस्य मुञ्चतो नास्ति मे व्यथा ॥ १२ ॥


ह-निरुद्धा इति । अनेन सर्वप्रकारेणापि नगरं प्रत्यागमने त्वरातिशयो वसिष्टस्येति व्यज्यते । ननु कुत ईशस्त्वरातिशय इत्यत आह-त्वं बाल एवासीति । नतु राज्यतन्त्रविचारोपमर्दाभिश इत्यर्थः । किं च दशरथजामातरं ऋष्यशृङ्गं जामातेति निर्दिशन्वसिष्ठः खस्य दशरथस्थानीयतामभिप्रेति । तच्च रामबुद्ध्या स्वबुद्ध्या च । एवं मानल्यबालशब्दः पुत्रत्वाभिप्रायमूलकः । ततश्च ननु यद्यत्राचार्यक प्रस्तुतं स्यात् । इति तदागमने वरातिशय इति । न केवलमहह्माचार्यः, किं तु त्वगुळ्या दशरथस्थानीयश्च । तथा च त्वदीयराज्यत्तन्नविषयकास्थानानर्थशका मामसंनिकृष्टं बाधत इत्याह स्व बाल एवाति । नत्वन्यादृशरघुकुलराजचत् शिष्य इत्यर्थः । तथा च तव शिष्यमात्रत्वे पौरोहित्यादिकं वामदेवादयो निर्वत्यन्तीति तदर्थ नास्माक खरा । किंतु तत्पुत्रत्वात् त्वां युवराजीकृत्य महाराजस्थानीयेन मया राज्यतम्रो विचारयितव्यः । अन्यथा न मामतिशङ्का मुञ्चतीति भावः। नन्वस्त्येवम् , तथापि युद्धादिषु लब्धवर्णस्य याँवराज्यस्य पालने सहायापेक्षा नास्तीत्यत्राह-राज्यामिति । नवं च नवमेय । जतु युद्धादिवत् परिचितपूर्वमित्यर्थः । ननु तर्हि किं कर्तव्यमित्यत्राह—युक इति । युक्तः संनद्धः । 'योगः संनहने' इति कोशात् स्वस्मादात्मन आत्मीयाद्वा । परमं सर्वोत्कृष्ट प्रसिद्धधनस्य क्षयित्वमिति, तळ्यावृत्तिः परमशब्देन विवक्षिता । धन लब्धाशपरिपालनालब्धांशार्जनाभ्यां धनतुल्यमित्यर्थः ॥११॥ यथेति । मैत्रावरुणि: मित्रावरुणयोरपत्यमित्यर्थे बाह्नादित्वादिप्रत्ययः । देवताद्वन्द्वे च' इत्यानड् । इयं च कथा पौराणिकी वेदितव्या । समादिशत्याज्ञापयति । तथा करोमीति शेषः । स्नेहमिति स्नेहो हि मुखरूपः सुखान्तरहेतुश्च । किंच 'शरीरं वसु विज्ञान मित्रार्थे संपरित्यजेत्' इत्युक्तरील्या सर्वापेक्षया प्रशस्तश्च । अपि च 'अहेतुः पक्षपातो यन्तस्य नास्ति' इत्युक्तरीत्या दुर्निवर्त्यथ । तथा च तत्परित्यागोऽपि मम न दुःखायेति भावः । स्नेहस्य व्यवस्थितविषयत्व एवं गुणत्वम् , अन्यथा तु दोषत्वमस्तीति निष्कर्षःदया तु सर्वविषयापि गुणत्वं म मुञ्चति । यथा 'सर्वभूतेषु सर्वत्र संतुष्ट्या येनकेनचित् । सर्वेन्द्रियोपशान्त्या च तुयत्याशु जनार्दनः ॥' इत्युक्त्या धर्मरूपतया च । किच परदुःखाधीनसत्ततया तनियुक्ति विना दुर्निवा । तामपि मुश्चतो मम न व्यथेति भावः । एतेषां व्यतिरेकेऽप्यात्मनो न व्यतिरेक इत्यस्यापकर्षः । सीता तु 'प्राणेभ्योऽपि गरीबसी' इत्युक्तरीत्या जीवितं प्रत्यपि प्रथानभूता । किच 'अद्यावसितं रामस्य जीवितप्रयोजनम्' इति वक्ष्यमाणरीत्या मयतिरेकप्रयोजनव्यतिरेकवती । पूर्वोतलेहदयासौख्यैः संतुष्टोऽहं तामवलम्ब्च । तथाभूतामपि मुञ्चतो मम न व्यथति भावः । सीतामिलनुक्त्वा ज्ञानकीमित्युक्ति काराधनापेक्षया ब्रह्मवित्तमजनकानुरोधोऽप्याकिंचित्कर इति सूचयति । लोके हि अभिमतवतुपरित्यागात्पूर्वकाले तस्य संनिधानात् न दुःखभूयस्त्वम् । परिसांगात्परमपि तस्यातीतत्वात् न दुःखभूवस्त्वम् । तत्परित्यागकाले तु भवति दु:-