पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१
प्रथमोऽङ्कः।

देवि देवयजनसंभवे, प्रसीद । एष ते जीवितावधिः प्रवादः ।

  क्लिष्टो जनः किल जनैरनुरञ्जनीय-
   स्तन्नो यदुक्तमशुभं च न तत्क्षम ते ।
  नैसर्गिकी सुरभिणः कुसुमस्य सिद्धा
   मूर्ध्नि स्थितिर्न चरणैरवताडनानि ॥ १४ ॥


च्यानि पावनानि पावनान्तराणि । तैरित्यर्थः । किम् । न किमपीत्यर्थः । शुद्धिहि दोषनिर्हरणम् । अविद्यमानदोषायाः कथं शुद्धिरिति भावः । किच अन्तरशब्देन दोपरहितमात्रस्त्र पावकवस्त्वपेक्षा नास्ति । पावकस्य तु तन्नरपेक्ष्यं कैमुतिकम् । इयं च केवल दोषरहिता न । किंतु पावका चेति सूच्यते । 'अपि मां पावयेत्साध्वी स्नात्वे'तीच्छति जाह्नवी' इति न्यायात् । उक्तमर्थमुत्तराधैन दर्शयति---तीर्थोदकमिति । गङ्गादिपावनजलम् । तीर्थशब्दो विशेषणमात्रपरः । यथाश्रुते तीर्थशब्दस्यैव परिशुद्धोदकवाचित्वात् । या तीर्थानां गुरूणामुदकं पादावनेजनाम्भः । 'आपः पादाबनेजनीषिन्त निर्दहन्तु ने' इति श्रुते । बद्रिश्च । अन्यत्त शुद्धिमन्यहेतुकशुद्धि नार्हतः। यथा पावकत्वाविशेषात्तीर्थोदकबड्योरितरापेक्षा नास्ति तस्दस्या अपि पाबकत्वाविशेषेण तदपेक्षा मास्तीत्यतिस्फुटम् । किच विनिगमनाविरहात् बलेवी सीतासंबन्धत. शुद्धिः कि न स्यादिलाशयः । अग्निप्रवेशानुमतिमूढप्रत्यायनार्थी वा । अग्निप्राशस्त्यार्थी वा॥१३॥जीवितावधिरिति । जीवितस्यावधियस्येति बहुत्रीहिः । यदीयावधिः जीबितावधिः । स इमर्थः । प्रसीद । अञ्जलिः परमा मुद्रा क्षिप्रं देवप्रसादिनी' इत्युक्तरीत्या बहुतरापराधानां क्षिप्र क्षमापकोऽगमञ्जलिरपराधभूयस्त्वानुगुण्याच्छरीरपातपर्यन्तमनुष्टेयः । स चाशक्त्या तन्नेणानुष्ठीयत इति भावः । क्लिष्य इति। ययस्मात्कारणाक्लिष्टो जनो दुःखितो जनो जनैरनुरञ्जनीयः । क्लेशं विहार्य लालनीय इत्यर्थः । नतु पूर्वानुभूतदु.खस्मारणेन क्लेशयितव्य इत्यर्थः । तत्तस्मात् । अशुभममङ्गलम् । 'अशिवम्' इति पाठान्तरम् । ते त्वद्विषये । शेषे षष्ठी । न आवयोः । 'अस्मदो द्वयोश्च' इति द्वित्वे बहुवचनम् । यदुताम् । 'अस्मत्कर्तृक अदचनमित्यर्थः । 'नपुसके भावे क्त.' । 'यावदार्याया हुताशनशुद्धि.' इत्युक्तलक्ष्मणयचनमित्यर्थः। अत्र लक्ष्मणवचनस्य रामस्य खोक्तितैक्यामिसंधिना। 'रामस्य दक्षिणो बाहर्निस्य प्राणो बहिश्वर.' इत्युक्तेः । तत् । वचनमित्यनुषज्यते । नः । त्वदेकजीवितधोरतव निर्दोषतां च जानतोरित्यर्थः । नक्षम नोचितम् । अयं भावः-वन्धुत्व मित्रत्वानादरेण जनत्वरूवसामान्यधर्म एवानुरञ्जनीयानुरजक्रमावे पर्याप्तो हेतुः । तत्र 'प्रेयो मित्रं बन्धुता ना सनग्रा सर्वे कामाः संपदो जीवित वा । स्त्रीणां भर्ता धर्मदाराश्च पुमाम' इत्युक्तरीत्या सर्वप्रकारप्रियतमायास्तव विषये तथाविधानामस्माक पूर्वानुभूतदुःखलारणमहापराभो नोचित एव । तत्राप्यलोकनिर्वन्धतत्त्मारणं तु सुतराम् । किच निदोषता व जानतोरावयोस्तत्कथन तु दूरोत्सारितमिति । सुरभिणः कुसुमस्य सुगन्धप्रधानस्य पुष्पस्य मूर्ध्नि स्थितिनैसर्गिकी निसर्ग एव । विनयादित्वाखार्थे ठक्प्रत्ययः । सिद्धा