पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७३
सप्तमोऽङ्कः।

 लक्ष्मण:----(विलोच्य)

  मन्थादिव क्षुभ्यति गाङ्गमम्भो
   व्याप्तं च देवर्षिभिरन्तरिक्षम् ।
  आश्चर्यमार्या सह देवताभ्यां
   गङ्गामहीभ्यां सलिलादुपैति ॥ १७ ॥

(नेपथ्ये ।)

  अरुन्धति जगद्वन्द्ये गङ्गापृथ्व्यौ जुषस्व नौ ।
  अर्पितेयं तवावाभ्यां सीता पुण्यव्रता वधूः ॥ १८ ॥

 लक्ष्मणः- अहो आश्चर्यमाश्चर्यम् । आर्ये, पश्य पश्य । कष्टम्द्यापि नोच्छुसित्यार्यः।

(ततः प्रविशत्यरुन्धती सीता च)

 अरुन्धती-

  त्वरस्व वत्से बैदेहि मुश्च शालीनशीलताम् ।
  एहि जीवय मे वत्सं सौम्यम्पर्शेन पाणिना ॥ १९॥

 सीता--(ससंत्रमं स्पृशति ।) समस्ससदु समस्ससदु अज्जउत्तो।

 रामः-(समावस्त्र सानन्दम् । भोः, किमेतत् । (दृष्टा सहर्षाद्रुतम् ।) कथं देवी जानकी । (सलनम् ।) अये, कथमम्बारुन्धती । कथं सर्वे ऋष्यशृङ्गादयोऽस्मद्गुरवः। अरुन्धती-वत्स, एषा भागीरथी रघुकुलदेवता देवी गङ्गा सुप्रसन्ना।


 १. समाश्वसितु समाश्वसित्वार्यपुत्रः ।


वरात्मकाश्च प्राणभृतः । वृक्षादीनामपि प्राणवत्त्वात्स्थावरोक्तिरविरुद्धा । वल्मीकिनाभ्यनुज्ञातं करुणाद्भुतरसमित्यत्राद्भुतपदेन प्रकाश्यत्वेन बोधितं पवित्रं निर्दोषमाश्चर्य पश्यन्तु ॥ मन्थादिधेति । गाइसम्भः मन्यादिव मथनादिव क्षुभ्यति क्षोभं प्राप्नोति। अन्तरिक्ष देवैः ऋषिभिश्च व्याप्तम् । कौतुकादिति भावः ।आर्या सीता देवताभ्यां गङ्गामहीभ्यां सह सलिलादुपैति प्राप्नोति ॥ १७ ॥ नपथ्ये । अरुन्धतीति । नौ द्वितीयाद्विवचनम् । गङ्गापृथ्व्यौ जुषस्व जानीहि नौ । जुषख प्रीयस्व । तव वधूः स्नुषा इचं सीता आवाभ्यां तवार्पिता ॥ १८॥ आर्ये । अरुन्धती प्रति संयोधनम् । नोच्छुसिति उच्छासं न प्राप्नोति ॥ त्वरस्वेति । शालीनशीलतामशृष्टस्वभावत्वं मुश्च त्यज । सौम्यस्पर्शेन चन्द्रवच्छीतलेन पाणिना मे वसं जीवय सप्राणं कुरु॥१९॥ एतत्सीतास्पर्शरूप किं किहेतुकम् । कथ देवी जानकी । विस्मयद्योतकः कथंशब्दः ।