पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७२
उत्तररामचरिते

 राम:---वत्सावित्येवाहं परिप्लवमानहृदयः प्रमुग्धोऽस्मि ।

 पृथिवी-एहि वत्से, पवित्रीकुरु रसातलम् ।

 राम:--प्रिये, लोकान्तरं गतासि ।

 सीता---णेदु मं अत्तणो अङ्गेसु विलअं अम्बा । ण सहिम्स ईरिसं जीअलोअस्स परिभवं अणुभविदुम् ।

 लक्ष्मण:-किमुत्तरं स्यात् ।

 प्रथिवी-मन्नियोगतः स्तन्यत्यागं यावत्पुत्रयोरवेक्षख । परेण तु यथा रोचिष्यते तथा करिष्यामि ।

 गङ्गा एवं तावत् ।

(इति निष्क्रान्ते देव्यौ सीता च ।)

  रामः-कथै प्रतिपन्न एव तावत् । हा चारित्रदेवते, लोकान्तरे पर्यवसितासि । (इति मूर्छति ।)

 लक्ष्मण:-भगवन्वाल्मीके, परित्रायस परित्रायस्व । एष ते काव्यार्थः।

(नेपथ्ये ।)

  अपनीयतामातोद्यम् । भो जङ्गमस्थाचरा प्राणभृतो मामाः, पश्यन्त्विदानी वाल्मीकिनाभ्यनुज्ञातं पवित्रमाश्चर्यम् ।


 १. नयतु मामात्मनोऽङ्गेषु बिलयमम्बा । न सहिण्यामीदृशं जीवलोकस्य परिभवमनुभवितुम् ।


स्वखादिकं समान योज्यम् । वयसा जीवनकालेन हेतुना । द्वादशाब्दको द्वादशसंख्याकसंवत्सरयुक्तौ । अभिनेयशिश्वोरप्यभिनयकालापेक्षया द्वादशाब्दकल बोध्यम् ॥१६॥ वत्साविति । परिप्लवमानहृदयस्तरलहृदयः । प्रमुग्धोऽस्मि प्रमूढोऽस्मि रसातलमधोभुवनम् ॥ लोकान्तरमन्यं लोकम् ॥ विलयं तिरोहितत्वम् । जीवलोकस्य परिभवं जीवलोककर्तृकतिरस्कारम् ॥ उत्तरं पृथिव्याः प्रतिवचनं किं स्यात् । उत्तरमनन्तरभावि वा ।। मन्नियोगतः मदादेशेन स्तन्यत्याग यावत्स्तन्यबागमभिव्याप्य पुत्रयोरवेक्षख पुत्रौ पश्येत्यर्थः । परेण तु परस्तात्तु यथा रोचिष्यते येन प्रकारेण रुचिर्भविष्यति ते तथा करिष्यामीत्यर्थः ॥ एवं तायदेवमेव । देव्यौ गङ्गापूथिन्यौ। निष्कान्ते । रजस्थानादिति शेषः ॥ लोकान्तरे पर्यवसितासि । पर्यवसानं विश्रान्तिः। लोकान्तरमेव गतासीति प्रतिपन्नं निश्चितम् । स्तन्यत्यागात्परन रसातलगमनस्य पृथिव्याम्चनुज्ञातत्वात द्वादशानां वत्सराणामतीतत्वाच लोकान्तरं गतासीत्येतावनिश्चितमिति भावः ॥ एष ते काव्याथैः । पर्याप्तं दृष्ट इति शेषः । इतः परं निवर्तितव्यमिति हृदयम् ॥ आतीथं मृत्तगीतसमुदायः । अपनीयतां निवर्त्यताम् । मामा देवमनुष्यात्मकाः जङ्गमस्था-