पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
उत्तररामचरिते

(नेपथ्ये ।)

 जगत्पते रामभद्र, स्मर्यतामालेख्यदर्शने मां प्रत्यात्मवचनम् । सा त्वमम्ब स्नुषायामरुन्धतीव सीतायां शिवानुध्यानपरा भवेति । तदनृणामि ।

 अरुन्धती-इथं ते श्वश्रूभगवती वसुंधरा ।

(नेपथ्ये)

उक्तमासीदायुष्मता वत्सायाः परित्यागे 'भगवति वसुंधरे, श्लाघ्यां दुहितरमचेक्षस्व जानकीम्' इति । तदधुना कृतवचनास्मि ।

 राम:---कृतापराधोऽपि भगवति, वयानुकम्पयितव्यो रामः प्रणमति।

 अरुन्धती-भो भोः पौरजानपदाः, इयमधुना वसुंधराजाबीभ्यामेवं प्रशस्यमाना मया चारुन्धत्या च समर्पिता पूर्व भगवता वैश्वानरेण निर्णीतपुण्यचारित्रा सब्रह्मकैश्च देवैः स्तुता सावित्रकुलवधूदेवयजनसंभवा जानकी परिगृह्यताम् । कथमिह भवन्तो मन्यन्ते ।

 लक्ष्मणः--आर्य, एवमम्बयारुन्धत्या निर्भसिताः पौरजानपदाः कृत्तश्च भूतग्राम आयो नमस्कुर्वन्ति । लोकपालाः सप्तर्षयश्च पुष्पवृ- ष्टिभिरुपतिष्ठन्ते ।

 अरुन्धती-जगत्पते रामभद्र,

  नियोजय यथाधम प्रियां वं धर्मचारिणीम् ।
  हिरण्मय्याः प्रतिकृतेः पुण्यां प्रकृतिमध्वरे ॥ २० ॥


लजा मनःसंकोचः । स चेहारुन्धतीदर्शनात् ॥ भागीरथी भगीरथनीता रघुकुलदेवता देवी दीप्तिशालिनी । सुप्रसन्ना अनुग्रहं कृतवती ॥ आलेख्यदर्शने चित्रदर्शने । आत्मवचनं त्वद्वचनम् । अनृणालि निर्यातितऋणास्मि । ऋणं ह्यवश्यप्रतिविधेयमिति साहश्यादेवमुक्तम् ॥ आयुष्मता । त्वयेति शेषः । वसुंधरायै वसुंधरा बोधयितुमुकमासीदिति वचनं जातम् । श्वाध्या दुहितरमवेक्षख जानकी मितीदं वसु उक्तमासीदिति कर्मणि को वा ज्ञेयः। कृतवचनास्मि । उच्यत इति वचनः उक्तार्थः । कृतः अनुष्ठित: उकाओं वया तथोक्तास्मि ॥ अनुकम्पयितव्य इति दयाविषयः कर्तव्य इति प्रणमति प्रकर्षण नमस्थति ॥ पौराः पुरवासिनः । जानपदाः देशवासिनः। एवं प्रशस्यमाना 'भावयोरपि यत्सङ्गात्पवित्रत्व प्रकृध्यते' इत्यभिष्टुता । पूर्व रावणवधानन्तरकाले। वैश्वानरेजामिना । निर्णीतपुण्यचारित्रा निश्चितपातिव्रत्या। परिगृयता राशीत्वेन स्वीक्रियताम् । इहास्मिन्नर्थे कथं मन्यन्ते किं वो मतमिति भावः । भूतप्रामः गोबलीवदन्यायेन पौरजानपदातिरिक्ता ग्राह्याः । आर्यों सीतां नमस्कुर्वन्ति । लोकपालाः इन्द्रादयः । सप्तप्रय अन्यादयः । पुष्पवृष्टिभिः करणैरुपतिष्ठन्ते पूजयन्ति । आयोमित्यनुवः ॥ नियो-