पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८
उत्तररामचरिते

  लौकिनानां हि साधूनामथै वागनुवर्तते ।
  ऋषीणां पुनराद्यानां वाचमर्थोऽनुवर्तते ॥ १० ॥

 अष्टावक्र:---इदं च भगवत्यारुन्धत्या देवीभिः शान्तया च भूयोभूयः संदिष्टम् । यः कश्चिदर्भदौहृदोदयो भवत्यस्याः सोऽवश्यमचि- रान्मानयितव्य इति ।

 रामः-क्रियते यद्येषा कथयति ।

 अष्टावक्र:-ननान्दः पत्या च देव्याः संदिष्टम्-'वत्से, कठोरगमति नानीतासि । वत्सोऽपि रामभद्रस्त्वद्विनोदार्थमेव स्थापितः । तत्युअपूर्णोत्सङ्गामायुष्मती द्रक्ष्यामः' इति ।

 रामः- (सहर्षलज्जास्मितम् ।) तथास्तु । भगवता वसिष्ठेन न किंचिदादिष्टोऽस्मि ।

 अष्टावक्र:--श्रूयताम् ।

 जामातृयज्ञेन वयं निरुद्धास्त्वं बाल एवासि नवं च राज्यम् ।
 युक्तः प्रजानामनुरञ्जने स्यास्तस्माद्यशो यत्परमं धन वः ॥११ ॥


इति । एतन्मनुष्यानुग्रहरूपचीजाजीकरणरूपं समाधान नाम संध्यङ्गमुकम् । तदुकम्-'बोजाङ्गीकरण समाधानम्' इति । लौकिकानामिति । लौकिकानामिलतो व्यतिरेकनिर्देशाल्लोकान्यस्य वेदस्यैव झरित्युपस्थितेः ऋषीणामित्युक्तम् । ऋषीणां पुनः । तपखिनामित्यर्थः । वाचमर्थोऽनुवर्तते वागधीनोऽर्थों भवति । तपस्विनामुक्तिहिं तपःप्रभावेनानासन्नमप्यर्थमुत्पादयतीति भावः । यद्वा 'ऋष गतौ' इत्यस्य बुध्वर्थत्वात्कालत्रयवर्तिवस्तुलाक्षात्कर्तृत्व नद्रषिपदप्रतिनिमित्तम् । तथा च भाविनमर्थ दृष्ट्वा ते वदन्ति । ततः स्वकाले प्राप्ते सोऽधरतामनुसरतीति भावः । हि यस्मात् एवं तस्मादनुग्रहीता वयमिलन्यत्रः । एतत् ऋषियोवितरणरूपबीजगुणवर्णनात् विलोभन नाम संध्यगमुक्तम् । यदुक्तम्---'बीजगुणवर्णनं विलोभनम्' इति ॥१०॥ इदं चेत्यादि । गर्भस्य दौहृद लक्षणम् ‘स की चारुतपूर्णरन्त्रैः' इतिधत् विशेष्यमानपरम् । अन्यथा दौहृदशब्दस्यैव गर्भचिहवाचित्वात् । तच्च विशिष्टवस्तुविषयाभिलाषादिरूपम् । तस्योदय आविर्भावः । मानयितव्यः संभावयितव्यः । तथा संपादनेन सफलीकार्य इति भावः ॥ क्रियत इति । एषा कथयति यदि क्रियत इत्यन्वयः ॥ ननान्दरिति । ननान्दुः । शान्ताया इलर्थः । देव्या इत्यस्य पूर्वोत्तराभ्यां संबन्धः । तथा च देवीसंबन्धिननान्तपतिना देव्याः संदिष्टम् । देवी प्रति संदिष्टमिलर्थः । पुत्रपूर्ण उत्सकोयो यस्या इति बहुव्रीहिः । यद्धात्र पूर्ण पदेन यमाविश्यपि सूच्यते, अन्यथा पुत्रवटुसङ्गामिति बक्कु शक्यत्वात् । द्रश्याम इति । एतत् बीजानुगुणप्रयोजनविभाधनारूपा युक्ति म संध्यममुक्तं भवति । तदुक्तम्-बीजानुगुणप्रयोजनविभावना युक्तिः' इति ॥ जामानिति । ऋष्यशृङ्गेति वक्तव्ये जामात्रित्युक्त पूज्यतास्फोरणाय । एवं व तदिक्षितं ज्ञात्वैवासाभिस्तत्रासितव्यम् । किं पुनस्तत्कृतबहुनिन्थे सतीत्वत आ-