पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७
प्रथमोऽङ्कः।

 तेषां वधूस्त्वमसि नन्दिनि पार्थिवानां
  येषां कुलेषु सविता च गुरुर्वयं च ॥ ९ ॥

तत्किमन्यदाशास्महे । केवलं वीरप्रसया भूयाः ।

 राम:-- अनुगृहीताः स्मः।


स्कृतोऽजाताविति निषेधस्तु प्राचिकः । ग्रह्यादिणिगिर्वा । नान्तला डीए । मन्दिनि पुत्रि । संबोधनम् । इद च 'अस्माकं तु जनकसुता दुहितैव इति वक्ष्यमाणरीत्या दशरथमतानुसारेण भगवती षाडण्यपरिपूर्ण विश्वंभरा भूमिः । भूरिल्यावनुक्ला विश्वभरोक्तिः क्षान्तिप्रधानतासूचनाय । भवती पूज्यां त्वामसूत सूतवती । 'पूड् प्राणिप्रसचे' लड् । शपो लुक् । विश्वभराशब्दस्तु 'संज्ञाचा मृतृ-' इत्यादिमा खच्प्रत्ययमुमागमान्यां निष्पन्नः । प्रजापतिना ब्रह्मणा समः । स्वाध्यायादिना ब्रह्मतुल्य इलधः । 'मान्धातारमपारसंसदि महद्भावे यशोराशिघु' इत्युचारीत्या ब्रह्मवत माहात्म्यशालीति वा । राजा । राजते दीप्यते इति । 'कनिन् युवृषितक्षि-' इत्यादिना कनिन्प्रलयः । ब्रह्मज्ञानपरिपूर्णतया नैष्ठिकवनिरतिशयदीप्तियुक्त इत्यर्थः । इद चोकं मीमांसावाम् –'क्षत्रियत्वगतेश्च' इति सूत्रविषयवाक्यप्रकरणे जानश्रुतीना(8) क्षत्रियवृत्तान्ते स्पष्टम् । अदा ज्ञानभक्तिवैराग्यरत्मदादीनपि रज्जयतीति राजा धातूनामनेकार्थत्वादिति । जनकः पूर्वोकप्रकारेण श्रुतिषु प्रसिद्धः। 'जनको ह वैदेहः', 'कर्मणैव हि संसिद्धिमा- स्थिता जनकादयः' इत्यादिषु प्रसिद्ध इत्यर्थः । ते पिता येषां राज्ञां कुलेमिषति बहुत्वंपूजायाम् । उद्भूतावयविवक्षया, कुल झुत्पादकप्रबन्धः । सर्व जगत्सुवति कर्मानुष्ठाने प्रेरयतीति वा सविता सूर्यों गुरुः पिता वयमहम् 'अस्मदो द्वयोश्च' इति एकत्वे बहुवचनम् । 'सविशेषणस्य प्रतिषेध.' इति तु न बिधेयविशेषणविषये। ततोऽतु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः' इत्यादिप्रयोगात् । यद्वा 'वतिष्ठाङ्गिरसौ ऋषी प्राचेतसस्तथा' इति वक्ष्यमाणरीला बाल्मीके:, जृम्भकात्रसंप्रदायेन विश्वामित्रस्य, वामदेवादेव ग्रहणात् वयमिति बहुवचनम् । गुरुरित्यनुषक्तस्य वचनविपरिणामात गुरवो हितोपदेशारः । गृणातीति गुरुः । 'प्रोच' इत्यौणादिकसूत्रेण निष्पन्नोऽचं शब्द. । 'गुशब्दस्त्वन्धकारः स्यात् रशब्दस्तनिवर्तक.' इति निरक्या अज्ञाननिवर्तक इत्यर्थः । गुरवः पितर इत्येव वार्थः । स हि विद्यातस्तं जनयति' इति स्मृतेः 'पुत्रका इति होवाच' इत्यादि पुराणाञ्च । तेषां पार्थिवानाम् । 'सर्वा पूर्वमिव येवामासीत्कृत्स्ना वसुंधरा' इत्युक्तमुख्यपृथिवीपतित्वधर्माणां वपूरसि स्नुपासि ॥ ९॥ तदिति । तस्मात् अन्यकि वक्ष्यमाणादितरत्किमाशास्महे । 'आइशामु इच्छायाम्' इति धातोलन । अयं भायः तव गुणातिशयो नाशास्यस्तस्य 'विशेभरा भगवती' इत्युक्तमातृसंबन्धवशादेव तत्सिद्धेः । नापि ज्ञानभक्तिवैराग्यादिकम् , तस्य ब्रह्मवित्तमजनकसंबन्धादेव तल्लाभात् । न वा हितग्राहित्वमैश्वर्यं भर्तृसंवन्धप्रयुक्त निकर्षाभावश्च प्रार्श्वः । तेषां सहरुसंबन्धशालिमहाराजमहाकुलप्रसूतराजकुलस्नुषात्वादेव सिद्धत्वात् । अत एतेषां ना- शस्यत्वम् , किंतु वीरप्रसवत्वस्येति । एष ऋषिश्रेयोविधानभूतबसिष्टानुनहरूपबीजस्य बहकरणात्परिकरः । तदुक्तम्-'बीजस्य बहूकरण परिकरः' इति । अनुगृहीता