पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७०
उत्तररामचरिते

 सीता-कित्ति आबद्धकलकलं पज्जलिअं अन्तरिक्खम् ।

 देव्यौ-ज्ञातम् ।

  भृशाश्वः कौशिको राम इति येषां गुरुक्रमः।
  प्रादुर्भवन्ति तान्येव शस्त्राणि सह जृम्भकैः ॥ ९ ॥

(नेपथ्ये।)

  देवि सीते नमस्तेऽस्तु गतिर्नः पुत्रको हि ते ।
  आलेख्यदर्शनादेव ययोर्दाता रघूद्वहः ॥ १० ॥

 सीता-दिविआ अत्थदेवदाओ एदाओ। अज्जउत्त, अजावि दे पसादा पडिप्फुरन्दि।

 लक्ष्मणः----उक्तमासीदार्येण सर्वथैतानि त्वत्प्रसवमुपस्थास्यन्तीति ।

 देव्यौ ----

  नमो वः परमास्त्रेभ्यो धन्याः सो वः परिग्रहात् ।
  काले ध्यातैरुपस्थेयं वत्सयोर्भद्रमस्तु वः ॥ ११ ॥

 रामः-

  श्रुभिलाः कामपि दशां कुर्वन्ति सम संप्रति ।
  विस्मयानन्दसंदर्भजर्जराः करुणोर्मयः ॥ १२ ॥


 १. किमित्यावद्धकलकलं प्रज्वलितमन्तरिक्षम् ।

 २. दिष्टया अस्त्रदेवता एताः । आर्यपुत्र, अद्यापि ते प्रसादाः परिफुरन्ति ।


त्वेन तदागमनसूचनार्थ नेपथ्ये इत्युक्तम् ॥ प्रज्वलितं प्रकाशवत् ॥ भृशाश्व इति । गुरुकमः आचार्यानुपूर्वी । जम्भकैः सह शस्त्राणि वारुणादीनि प्रादुर्भनन्ति प्रकाटीभवन्ति॥९॥ देवीति । पुत्रको नो गतिः अस्माकं प्राप्यौ । आलेख्यदर्शनात्प्रथमाझोक्तचित्रदर्शनात् ॥ १० ॥ दिष्टयेति । एताः अस्त्रदेवताः । आनन्दहेतव इत्यर्थः । अद्याप्येवं दोषवादप्रयुक्तपरित्यागकालेऽपि ते प्रसादाः त्वदनुग्रहाः परिस्फुरन्ति प्रकाशन्ते ।। उक्तमासीत् । प्रथनाङ्क इति शेषः॥नम इति । वः परिग्रहायुष्मत्कर्तृकखीकारात् धन्याः स्मः क्षेमलाभयुका भवागः।काले युद्धादिसम्ये ध्यातैरागन्तव्यमिति चिन्तितैः । काले बुद्धादिसमये वत्सयोस्पस्थेयं संनिधातव्यम् ।युष्माभिरिति शेषः ॥ ११ ॥ क्षुभिता इति। क्षुभिताः क्षोभ प्राप्ताः । विस्मयः अपूर्ववस्तुसंदर्शनजन्यान्तःकरणविकारविशेषः । स चात्र गडापतनतत्रत्यप्रसवजृम्भकप्राप्त्यादिमूलकः । आनन्दः खसंबन्धसंभावनाहताप्रयुक्तप्रीतिविशेषः । ताभ्यां जर्जराः व्याकुलिताः। करुणस्य सीतावियोगअन्यदुःखातिशयस्य ऊर्मयः तरङ्गाः मम कामपि दशामनिर्वाच्यामवस्यों कुर्वन्त्युत्पाद-