पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७१
सप्तमोऽङ्कः।

 देव्यो-मोदख यत्से, मोदख । रामभद्रतुल्यौ ते पुन्नकाविदानीं संवृत्तौ।

 सीता-भअवदीओ, को एदाणं खत्तिओइदविहिं कारइम्सदि ।

 रामः

  एषा वसिष्ठशिप्याणां रघूणां वंशनन्दिनी ।
  कष्टं सीतापि सुतयोः संस्कतोरन बिन्दति ॥१३॥

 गङ्गा-भद्रे, किं तवानया चिन्तया । एतौ हि वत्सौ स्तन्यत्यागात्परेण भगवतो वाल्मीकेरर्पयिष्यामि ।

  बसिष्ठ एव ह्याचार्यो रघुवंशस्य संप्रति ।
  स एव चानयोर्ब्रह्मक्षत्रकृत्यं करिष्यति ॥ १४ ॥
  यथा बसिष्ठाङ्गिरस ऋषिः प्राचेतसस्तथा ।
  जनकानां रघूणां च बंशयोरुभयोर्गुरुः ॥ १५ ॥

 रामः---सुविचिन्तितं भगवत्या ।

 लक्ष्मणः---आर्य, सत्यं विज्ञापयामि । तैस्तैरुपायैरिमौ वत्सौ कुशलवावुत्प्रेक्षे ।

  एतौ हि जन्मसिद्धास्त्रौ प्राप्तप्राचेतसावुभौ ।
  आर्यतुल्याकृती वीरौ वयसा द्वादशाब्दकौ ॥ १६ ॥


 १. भगवत्यौ, क एतयोः क्षत्रियोचितविधि कारयिष्यति ।


यन्ति । ऊर्मिपदेन करुणस्य समुद्रलं व्यज्यते ॥ १२ ॥ मोदख मोदं प्राप्नुहि । इदानी जम्भकास्त्रलामे । संवृत्तौ संजातौ ॥ क्षत्रियोचितं क्षत्रियजात्यनुरूपं विधिभुपनयनसंस्कारादिशास्त्रार्थ कः कारयिष्यति ॥ एषेति । वसिष्ठशिष्याणां रघूणां वंशनन्दिनी संततेरानन्दहेतुः एषा सीतापि सुतयोः संस्कारमुपनयनादिसंस्कारकाचार्य न विन्दति न लभते। कष्टम् ।दुःख्यत इत्यर्थः ॥ १३ भद्रे मङ्गलवति । एतौ वत्ती । द्वितीयान्तम् । स्तन्यत्यागात्परेण स्तन्यत्यागकालान्तरकाले । अर्पयिष्यामि विद्यादिप्रदानार्थमिति शेषः । एतेन द्वितीयाविष्कम्भस्थं केनापि देवताविशेषेणेति वाक्य व्याख्यातम् । वसिष्ठ इति । ब्रह्म च क्षयं च ब्रह्मक्षत्रे । तयोरुचितं कुर बामणव जात्यनुगुणत्रय्यध्यापनं क्षत्रियत्वोचितधनुर्वेदाध्यापनं च करिष्यति ॥१४॥ यथेति। अनकानां रघूणां च उभयवंशयोः यथा वसिष्ठाङ्गिरसौ वसिष्ठशतानन्दौ गुरू तथा प्रा- चेतसः ऋषिगुरुः । इदं गङ्गावचनम् ॥१५॥ तैस्तैरुपायैः बहुभिः हेतुभिः वत्सौ कुशलवौ उत्नेक्षे वत्सकुशलवत्तेन अभिनेयशिशुद्वयं संभावयामि । हेतूनाह-पतौ हीत्यादिना । तन्नेणायं श्लोकचतुष्टयपरः अभिनेशिश्वोः कुशलवयोश्च जन्मसिद्धा-