पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६५
सप्तमोऽङ्कः।

 लक्ष्मण:-कटं बतान्यदेव किमपि ।

 मूत्रधारः-

  विश्वंभरात्मजा देवी राज्ञा त्यक्ता महाबने ।
  प्राप्तप्रसवमात्मानं गङ्गादेव्यां विमुञ्चति ॥ २ ॥

(इनि निष्कान्तः।)

प्रस्तावना

 रामः----(सावेगम् ।) देवि देवि, लक्ष्मणमवेक्षख ।

 लक्ष्मण:--आर्य, नाटकमिदम् ।

 राम:-- हा देवि दण्डकारण्यवासप्रियसखि, एष ते रामाद्विपाकः ।

 लक्ष्मण:-आर्य, आश्वस्य दृश्यताम् । प्रबन्धस्त्वार्षः ।

 रायः--एष सज्जोऽसि वज्रमयः।

(ततः प्रविशति उत्सजितकैकदारकाभ्यां पृथिवीगजाभ्यामवलम्बिता प्रमुग्धा सीता ।)

 रामः-वत्स, असंविज्ञातपदनिबन्धने तमसीवाहमद्य प्रविशामि । धारय माम् ।

देव्यौ -

  समाश्वसिहि कल्याणि दिष्ट्या वैदेहि वर्धसे ।
  अन्तर्जले प्रसूतासि रघुवंशधरौ सुतौ ॥ ३ ॥


मिच्छन्ति । भागीरथ्यां गङ्गायामात्मानं निक्षिपामि पातयामि ॥ विश्वभरेति । विश्वमरात्मजा भूमेः सुता । देवी कृताभिषेका । राज्ञा लक्ष्मणेन । प्राप्तः प्रसवः यं प्राप्तप्रसवस्तम् । गझा च सा देवी च तस्याम् ॥२॥ प्रस्तावनेति । अन्तर्नाटकीयप्रस्ताबना वृत्तेत्यर्थः ॥ सावेगं सभयम् । लक्ष्मणमवेक्षख मयि सापराधेऽपि त्वत्तुत्रं लक्ष्मणं दृष्ट्वा गङ्गायां न पतितब्यमित्यर्थः ॥ नाटकमिदमुच्यमानगङ्गापतनं नाटकं नाटकप्रयोज्याभिनयात्मकम् ।न वास्तवमित्यर्थः ॥ रामाद्विपाक: रामहेतुका दुःखानुभष इत्यर्थः । दण्डकेति विशेषणं तु साभिप्रायम् । मत्सुख त्वदधीनं त्वदुःस्त्रं तु मददीनमित्यर्थः ॥ आर्य, आश्वस्य दुःखं लघूकृत्य । आर्षः ऋषिप्रणीतः । दर्शनाभावे मुनिः कुल्येदिति हृदयम् ॥ बज्रमयः अत्यन्तकठिनः । सज्जोऽस्मि सीताविपत्तिनाटकं टुं बद्धपरिकरोऽस्मि ॥ उत्सशितः उत्सझेन गृहीतः एकैको दारको याभ्यां तथोक्ताभ्यामवलम्बिता धारिता प्रमुग्धा प्रकृष्टमूविती ॥ असंविज्ञातमविदित पदनिबन्धनं स्थानसंबन्धो यस्मिस्तधोक्ते । पदनिबन्धनः पादन्यासो वा । मां धारय पतनप्रतिघातं कुरु ॥ समाश्वसिहीति । हे कल्याणि मङ्गलवति । संवुद्धिरियम् । वर्धसे श्रेयखिनी भवसि । दिष्ट्या आनन्देऽय शब्दः । अन्तर्जले जले अन्तः । प्रसूतासि उत्पादितवत्यसि । रघुवंशधरौ रघुसंतानैकदेशौ दिष्टया दैवेन दुष्टसाधनसंपत्यभावात्प्रसूतिप्रतिवन्धकसद्भाबादेवमेवात्र कारणमिति भावः ।सुन्दरकाण्डस्थदिष्टयेति