पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६६
उत्तररामचरिते

 सीता----(आश्वस्य ।। दिविआ दारए पसूदम्हि । हा अजउत्त ।

 लक्ष्मणः--(पादयोर्निपत्य ।) आर्य, दिष्टया वर्धामहे । कल्याणप्ररोहो रघुवंशः । (विलोक्य ।) हा कथं क्षुभितबाप्पोत्पीडनिर्भरः प्रमुग्ध एवार्यः (वीजयति ।)

 देव्यौ---वत्से, समाश्वसिहि ।

 सीता--(समाश्वस्य 1) मैअवदीओ, का तुम्हे । मुञ्चह ।

 पृथिवी--इयं ते श्वशुरकुलदेवता भागीरथी ।

 सीता---मो दे भअवदि ।

 भागीरथी-चारित्रोचितां कल्याणसंपदमधिगच्छ ।

 लक्ष्मणः-अनुगृहीताः स्मः ।

 भागीरथी---इयं ते जननी विश्वंभरा ।

 सीता--हों अम्ब, ईरिसी अहं तुए दिवा ।

 पृथिवी--एहि पुत्रि वत्से सीते।

(उभी आलिजय मूर्छतः।)

 लक्ष्मण:- (सहर्षम् ।) कथमार्या गङ्गापृथिवीभ्यामभ्युपपन्ना ।

 राम:---दिष्टया खल्वेतत् । करुणान्तरं तु वर्तते ।

 भागीरथी----अत्रभवती विश्वंभरा व्यथत इति जितमपत्यस्लेहेन ।


 १. दिष्टया दारको प्रसूतासि । हा आर्यपुत्र ।

 २. भगवत्यौ के युवाम् । मुश्चतम् ।

 ३. नमस्ते भगवति ।

 ४. हा अम्ब, ईदृश्यहं त्वया दृष्टा ।


पदस्य देवेनेत्युत्तानार्थों वर्णितः॥३॥ कल्याण: शुभकरः प्ररोहोऽङ्कुरो यस्य तथोक्तः ॥ मुञ्चत खजतम् । लोटमध्यमद्विवचनम् । मामिति शेषः ॥ श्वशुरकुलस्य पत्युः पितृवंशस्य देवता योगक्षेमनिर्वाहिका भागीरथी ! साभिप्रायं नामेह निर्दिष्टम् ॥ चारित्रस्य पातिवल्यसच्चरितस्य उचितामनुरूपां कल्याणसंपदं श्रेयःसंपत्तिम् ॥ अनुगृहोताः सः । रामः सौता अझ् च क्षेमोपधायिका आशीविषयीकृता इत्यर्थः । सीताक्षेमें सर्वक्षेम इति हृदयम् ॥ जननी माता । विश्वभरेति साभिनायम् । पुत्र्यां त्वयि एवमलीकवादिनोऽपि जनान् विभतांति क्षमातिशयव्यञ्जनात् ॥ ईदृशी एवमलीकपोरवादेन त्यक्ता विपञ्चमाना सती दृष्टा ॥ उभौ सीतापृथिव्यौ ॥ अभ्युपपन्ना अनुगहीता ॥ एतन्मातापुच्योरालिजय मूर्छारूपं करुणान्तरं मदुःखातिरिक्त 'दुःखम् ॥ अत्र-