पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
उत्तररामचरिते

 रामः-एतदुक्तं भवति । साक्षात्कृतधर्माणो महर्षयः । तेषाममृतं भराणि भगवतां परोरजांसि प्रज्ञानानि न कचियाहन्यन्त इति नहि शङ्कनीयानि ।

(नेपथ्ये।)

हा अजउत्त कुमार लक्खण, एआइणिं असरणं आसण्णप्पसववेअणं अरणे हदास सावदा अहिलसन्दि । हा दाणिं मन्दभाइणी भाईरईए अत्ताण णिक्खिविस्सम् ।


 १. हा आर्यपुत्र कुमार लक्ष्मण, एकाकिनीमशरणामासन्नप्रसववेदनामरण्ये हताशां श्वापदा अभिलषन्ति । हा इदानी मन्दभाग्या भागीरथ्यामात्मानं निक्षिपामि ।


पुणनटचेष्टादिवशात्सामाजिकैर्भाव्यमानो निरतिशयखप्रकाशानन्दमयरसता प्रतिपाद्यत इति रसविदा संप्रदायः । अद्भुतश्च तथाविधो विस्मयः । गङ्गाप्रवाहपतन तत्रत्यप्रसववर्णनादिनामृतरसयुक्तत्वम् । किचिन्मार्गरूपकमित्यर्थः । उपनिबद्ध अथितम् । तत्र रूपके काव्यगौरवात्काव्यस्य रूपकरूपस्य तगौरवान्महनीयत्वावधातव्यं मनसो विषयान्तरसंचारराहित्यरूपमवधानं कर्तव्यमित्लाज्ञापयतीति संबन्धः ॥ साक्षात्कृतो धर्मोऽलौकिकधेयःसाधनरूपो यैस्तथोक्ताः । महान्तश्च ते ऋषयः महर्षयः । 'ऋषयः सत्यवचसः' इत्यमरः । 'अमृतं मराणि' इति क्वचित्पाठः । इदं च पदद्वयम् । विमतीति भरम् । पचाछन् । त्रिलिङ्गत्वान्नपुंसकवहुवचनोत्पत्ती भराणीति भवति । अमृतमिति कर्मणि द्वितीया। अमृतकर्मकभरणकर्तृणीत्यर्थः । 'कर्तृकर्मणोः कृति' इत्यस्यानित्यत्वान्न षष्ठी। तज्ज्ञापकं तु तदहम्, 'अन्तधौंयेनादर्शनम्' इति निर्देशद्वयमिति स्पष्ट व्याकरणपरिशीलनशालिनाम् । 'धयैरामोदमुत्तमम् इति भडिप्रयोगाना प्रयुक्तत्वशङ्का । एतेन 'अमृतंभराशि' इति कवेः प्रमाद इति वदन व्याख्याता निरस्तः । अमृतभरणकर्तृत्वं चेह मोक्षसाधनत्वरूपम् । यद्वा । ऋतंभराणीति दारमर्थवन्ति । 'ऋतभरां च मां प्राहुः' इत्युक्तेः संज्ञाशब्दत्वात्संज्ञायां खच्प्रत्ययः । 'ऋतंभराभिधानम्' इत्युक्तेश्च । रजसः पराणि परोरजांसि । परिशुद्धानीत्यर्थः । 'शुद्धमरजस्क परोरजः' इति कोशः । तेषां भगवत प्रज्ञानानि प्रमादरहितानि ज्ञानानि न व्याहन्यन्ते। अयथार्थानि न भवन्तीत्येतदुक भवतीति पूर्वेणान्वयः । नहि शङ्कनीयानि अप्रामाण्यसंशयानहींणीत्यर्थः । नेपथ्ये इति । इदं चाङ्गाभिनेयसीताप्रवेशायुपक्षेपकम् । एकाकिनीमेकाम् । आसन्नप्रसववेदनां समी पागतप्रसूतिव्यथाम् । हताशां व्यर्थमनोरथाम् । श्वापदाः दुष्टमृगाः अभिलषन्ति भक्षितु-