चन्द्रकेतुः-अत्र कः संदेहः ।
व्यतिकर इव भीमस्तामसो वैद्युतश्च
प्रणिहितमपि चक्षुस्तमुक्तं हिनस्ति ।
अथ लिखितमिवैतत्सैन्यमस्पन्दमारते
नियतमजितवीर्य जृम्भते जृम्भकास्त्रम् ॥ १३ ॥
आश्चर्यमाश्चर्यम् ।
पातालोदरकुञ्जपुञ्जिततमश्यामै भो जम्मकै
रुत्तप्तस्फुरदारकूटकपिलज्योतिर्वलद्दीप्तिभिः ।
कल्पाक्षेपकठोरभैरवमरुढ्यस्तैरभिस्तीर्यते
लीनाम्भोदतटित्कडारकुहरैर्विन्ध्याद्रिकूटैरिव ॥ १४ ॥
सुमन्त्र:-कुतः पुनरस्य अम्भकाणानागमः स्यात् ।
चन्द्रकेतुः-भगवतः प्राचेतसादिति मन्यामहे ।
सुमन्त्रः-वत्स, नैतदेवमस्त्रेषु विशेषतो जृम्भकेषु । यतः ।
भृशाश्वतनया लेते भृशाश्चात्कौशिकं गताः ।
अथ तत्संप्रदायेन रामभद्रे स्थिता इति ॥ १५॥
चन्द्रकेतुः-अपरेऽपि प्रचीयमानसत्त्वप्रकाशाः स्वयं सर्व मन्त्रदृशः पश्यन्ति ।
तिकर इति । तमःसंबन्धी तामसः, विद्युत्संबन्धी वैशुतश्च । तथाविधो व्यतिकरः संपर्कः प्रणिहितमपि प्रयत्नेन निक्षिप्तनपि । अस्तं च तन्मुक्त च । खन्नकुब्जादिवसमासः । तमसा असं ज्योतिषा मुक्तम् । तमस्य सत्कल्पत्वाइस्तत्वम्, ज्योतिषि च कार्यकरत्वात्ततो मुक्तत्वम् । चक्षुर्हिनस्ति वायते । नियतं निश्चितन् ॥ १३॥ आश्चयमभूतपूर्वम् । पातालेति । पातालोदरमेव कुमः गुहा तस्मिन्पुनितानि संहतभावं प्राप्तानि यानि तमांसि तद्वत् श्यामैः। उत्तप्त हफुरत्तेजिष्टं च यदारकूट नपुधातुविशेपस्तस्य यत्कपिलं पिशङ्ग ज्योतिस्तद्वज्ज्वलद्दीप्तिभिः । अत एव कल्पाक्षेपे कल्पावसाने कटोरेण दृढेन भैरवेण भीतिजनकेन नरुताव्यस्तैर्वियोजितैलीताम्भोदानितरित्कडाराणि न्च कुहराणि एषां तथोक्तैः । कडारः कपिलः । विन्ध्याचलरिव स्थितैः जम्भकैनमः अभिस्तीर्यते आच्छाद्यते ॥१४॥ कृतः पुनः कस्मात्पुरुषात्पुनरस्य लवस्थ ॥ मन्तेषु विषये एतदागमनमेवे न त्वन्मतरीला न घटते । जृम्भकात्रेषु विषये एतत्प्राचेतसादधिगम इत्येतद्विशेषत एव तु न घटते । भृशाश्वेति । भृशाश्वतनया होते एते अस्त्रदेवताविशेषाः भृशाश्वमुनिना आदौ अनिताः । हीति प्रसिद्धौ । कौशिकं विश्वामित्रम् । अथानन्तरं तत्संप्रदायेन विश्वामित्रोपदेशेन ॥१५॥ अप-