पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३१
पञ्चमोऽङ्क:।

  दर्पेण कौतुकवता मयि बद्धलक्ष्यः
   पश्चादलैरनुसृतोऽयमुदीर्णधन्वा ।
  द्वेधा समुद्धतमरुत्तरलस्य धत्ते
   मेघस्य माधवतचापधरस्य लक्ष्मीम् ॥११॥

 सुमन्त्रः-कुमार एवैनं द्रष्टुमपि जानाति । वयं तु केवलं परवन्तो विस्मयेन ।

 चन्द्रकेतुः--भो भो राजानः,

  संख्यातीतैर्द्विरदतुरगस्यन्दनस्थैः पदाता-
   बनेकस्सिन्कवचनिचितैनद्धचर्मोत्तरीये ।
  कालज्येष्ठेरपरवयसि ख्यातिकामैर्भवद्भि-
   योऽयं बद्धो युधि समभरस्तेन धिग्वो धिगस्मान् ॥ १२ ॥

 लवः-(मोन्माणम् ।) आः, कथमनुकम्पते नाम । (रासंभ्रम विचिन्त्य ) भवतु । कालहरणप्रतिषेधाय जृम्भकास्त्रेण तावत्सैन्यानि संस्तम्भयामि ।

(इति चानं नाटयति ।)

 सुमन्वःतत्किमकसादुल्लोलाः सैन्यघोषाः प्रशाम्यन्ति ।

 लव:-पश्याम्येनमधुना प्रगल्भम् ।

 सुमन्त्र:-(ससंभ्रमम् ।) वत्स, मन्ये कुमारकेणानेन जृम्भकास्त्रमामन्त्रितमिति ।


रवान्कृत - । वीरसंवादस्य चन्द्रकेतोरुक्तिप्रत्युचिकायाः युद्धस्य वा ॥ दणेति । कोतुकवता सामर्थ्यदर्शनेच्छाचुत्तोन दर्पण यलेन मयि बद्धलक्ष्यः दत्तचक्षुर्मयि व्यवसितलक्ष्यत्ववान् । उदीर्णधन्वा उत्क्षिप्तचापः। द्वेधा मचि बले चाभिमुखोऽयं लकः द्वेधा सनुद्धतस्य चलितस्य मघवत्सबन्धिचापधरस्य वर्षाकालमेघस्य लक्ष्मी त्रिय धत्ते ॥११॥ संख्येति । संख्यातीतैरसंख्येषैः । द्विरदतुरगस्यन्दनेषु तिष्ठन्तीति द्विरदतुरगस्य- न्दनस्थास्तथाविधैः कवचनिचितर्वारवाणपिहितैः । अपरवयसि वार्धके ख्यातिकानेः विजयप्रशस्तिकामनावद्भिः कालज्येष्ठैवयोधिकैः । न तु शावणेत्यर्थः। भवद्भिरेकरिमन्नसहाये पदाती पादचारिणि नद्धचर्मोत्तरीयेऽस्मिन् शिशौ विषये योऽय समभरः एकीघमारः नद्धः तेन वः धिक। युष्माकमव्यवधानेन निन्दा, अस्माकं तु युष्मद्वारा ॥ १२ ॥ अनुकम्पते मस दौर्बल्यमाशङ्ग्य मदुःख परिजिहीर्षति । कालहरणप्रतिषेधाच कालयापननिवृत्तये संस्तम्भयामि निवृत्तव्यापाराणि करोमि ॥ प्रशाम्यन्ति विरम्यन्ति ॥ प्रगल्भं प्रौढम् ॥ आमन्त्रितमाहूतम् ॥ कः संदेहः । आमन्त्रित इत्यत्र संशयः क इत्यर्थः । मन्ये इत्यस्य संभावनावाचित्वात्तस्याश्चोत्कटैकतरकोटिकसंशयरूपत्वात् ।