पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४
उत्तररामचरिते

 मूत्रधारः-यदि पुनरियं किंवदन्ती महाराज प्रति स्यन्देत ततः कष्टं स्वात् ।

 नटः-सर्वथा ऋषयो देवाश्च श्रेयो विधास्यन्ति । (परिक्रम्य ।) भो । भोः, केदानी महाराजः । (आकये ।) एवं जनाः कथयन्ति-

  स्नेहात्सभाजयितुमेत्य दिनान्यमूनि
   नीत्वोत्सवेन जनकोऽद्य गतो विदेहान् ।
  देव्यास्ततो विमनसः परिसान्त्वनाय
   धर्मासनाद्विशति बासगृहं नरेन्द्रः ॥७॥

(इति निष्कान्तौ ।)

इति प्रस्तावना।

हि यस्माद्देव्या दीप्तिमत्या अपि । स्वभावतो दोषप्रतिभटाया अपीत्यर्थः । वैदेया विदेहराजपुत्र्याः । संबन्धसामान्ये षष्ठी । जनः सापवादः । अपवादो दोषकथनं तेन सहित इत्यर्थः । तथा च वैदेहीसंबन्ध्यषवादसहित इत्यर्थः । नित्यसापेक्षत्वात्समासः । तदुकम्----'संवन्धिशब्दः सापेक्षो निलं सर्वः समस्यते' इति । यतश्च रक्षोगृहस्थितिः राक्षसगृहावस्थानमात्रम् । नत्वन्यदिति भावः । मूलं दोषकथनहेतुः । अनिशुद्धौ अनिश्चयस्तु निश्चयाभावश्च । तुशब्दश्चार्थकः । अत्र देव्या इति दोषाभाव उक्तः । रक्षागृहस्थितिरिखनेन असाधारणहेलभाव उक्तः । अमिनुदावित्यनेन बाधकप्रमाणमुक्तम् । तथा च एतत्सर्वमपि नावलोकितमिति भावः । विषयमावमविगणय्य असतोऽपि दोपस्य कथन सुतरां दुर्जनकार्यम् । तत्राप्यसाधारणहेतुमप्यदृष्ट्वा विषयप्रभावमप्यविगणय्यासतोऽपि दोषस्व कथनम् , ततोऽपि दुर्जनकार्यम्, तत्रापि बाधकप्रमाणमप्यविश्वस्यासाधारणकारणमप्यदृष्ट्वा विषयप्रभावमप्यविगणय्यासतोऽपि दोषस्य कथनमू, ततोऽप्यतिदुर्जनकार्यमिति । अत्र हि यस्मात्सापत्रादः । अतश्च रक्षोगृहस्थितिमूलम् । अग्निशुद्धावनिश्चयश्च जनस्य । तस्माज्जनोऽतिदुर्जन इति वक्तव्यमित्येवं पूर्वेणान्वयः ॥ ६ ॥ यदि पुनरिति । किंवदन्ती लोकवादः स्यन्देत प्रस्रवेत् । श्रवणविषयीभवेदिति याबत् । अनेन प्रथमावार्थः सूच्यते । 'सर्वथा ऋषयः' इत्यादनेन शेषावार्थः सूचितः। एष ऋषिकर्तृकश्रेयोविधानरूपबीजन्यासादुपक्षेपो नाम संध्यमुक्तम् । यथा-बी.जन्यास उपक्षेप.' इति ॥ आकर्येति । इदमाकाशभाषितमुच्यते । तदुकम् 'अप्रविष्टैः सहालापो भवेदाकाशभाषितम्' इति । स्नेहादिति । सभातयितुं पुजयितुम् । उत्सवेन हर्षजनकव्यापारेण । विमनसो दुःखितहृदयायाः परिसान्त्वनाय तदुःखापनयनक्षममधुरवचनप्रयोगाय । 'तुमर्थाच्च' इति चतुर्थी। धर्मासनात् । क्षत्रियधर्मभूतराज्यपरिपालनार्यसिहासनादिलर्थः । वासगृह खावासगृहम् । विशति प्रवि-