पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५
प्रथमोऽङ्कः।

(ततः प्रविशत्युपविष्टो रामः सीता च ।)

 रामः-देवि बैदेहि, विश्वसिहि । ते हि गुरवो न शक्नुवन्ति न शक्रुवन्ति विहातुमस्मान् ।

  किं त्वनुष्ठाननित्यत्वं स्वातन्त्र्यमपकर्षति ।
  संकटा ह्याहिताग्नीनां प्रत्यवायेगेंहस्थता ॥ ८ ॥

 सीता-जाणामि अज्जउत्त, जाणामि । किंदु संदावआरिणो बन्धुजणविप्पओआ होन्ति ।

 रामः-एवमेतत् । एते हि हृदयमर्मच्छिदः संसारभागाः । येभ्यो बाभत्समानाः सत्यज्य सवान्कामानरण्ये विश्राम्यन्ति मनीषिणः।

(प्रविश्य।)

 कञ्चकी रामभद्र--(इत्यक्ति साशम् ।) महाराज-

 रामः--(सस्मितम् ।) आर्य, ननु रामभद्र इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य । तद्यथाभ्यस्तमभिधीयताम् ।


 १. जानामि आर्यपुत्र, जानामि । किंतु संतापकारिणो वन्धुजनविप्रयोगा भवन्ति ।


शांत ॥७॥ एवं प्रस्तावना प्रस्तुता।अथाङ्कः प्रस्तूयते-ततः प्रविशतीत्यादिना। अङ्कलक्षणं तु-'प्रत्यक्षनेतृचरितो बिन्दुव्यक्तिपुरस्कृतः । अङ्को नानाप्रकारानंसंविधानरसाश्रयः ॥ इति । विश्वसिहि संतोषं प्राप्नुहि । 'समाश्वसिहि इति पाठान्तरम्। विहातुं त्यक्तुम् । किं त्विति । किंतु अनुष्ठानस्य नित्यनैमित्तिकादिकर्मकलापनिवर्तनस्य नित्यत्वं नियतता । अनुष्ठानाभावविरहरूपनियम इत्यर्थः । स्वातन्त्र्य खैरावस्थानमापक- धति न सहते । अपकर्षतीत्युक्त्याविकामदपि खैरावस्थानं निरुन्ध इति लाभेन, कदाचिदप्यङ्गीकृतमपि खैरचरित तदाननुष्टितकर्मानुष्ठापनेन, तदनुष्ठानाभावप्रायश्चित्तानुष्ठापनेन च लभ्यते । जनैरिति तदाशयः । तदाह-संकटा हीति । हि यस्मात् । आहितानीनां गृहस्थता गृहस्थाश्रमः प्रत्यवायैर्विहितानाचरणजन्यपातकैः संकटा निविडा दुःखरूपाचा । जाप्रत्प्रत्यवायेत्यर्थः ॥ ८॥ 'एवमिति येभ्य इति संसारभागेभ्यः । संसारेऽवश्यानुभाव्यभाग इत्यर्थः । संसारो हि शरीरसंबन्धानुबन्धिसुखदुःखरामुदाय तथा च गुरुबन्धुवियोगादीनां तदेकदेशत्व संगतम् । बीभत्समाना जुगुप्समानाः । एतद्दोषानुवन्धजनितचित्तवृत्तिनिवृत्तियुक्ता इत्यर्थः । बीभत्साया जुगुप्साबस्थायिकखादित्थं व्याख्यातम् । अतएव बीभत्समाना इत्यस्य 'जुगुप्साविराम-' इत्यादिना पञ्चमी । 'बन्ध बन्धने' इत्यस्मात्स्वार्थे सनि रूपमिदम् । 'बधेश्चित्तविकारे' इति