पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२३
चतुर्थोऽङ्कः

 वटवः-अये, श्रृयताम् ।

  पश्चात्पुच्छं वहति विपुलं तच्च धूनोत्यजस्त्रं
   दीर्घग्रीवः स भवति खुरास्तस्य चत्वार एव ।
  शप्पाण्यत्ति प्रकिरति शकृत्पिण्डकानाम्रमात्रा-
   न्किं व्याख्यानैर्बजति स पुन(रमेोहि यामः ॥ २६ ॥

(इलजिने हस्तयोश्चाकर्षन्ति ।)

 लवः--(सकौतुकोपरोधविनयम् ।) आर्याः, पश्यत । एभिनीतोऽस्मि । (इति त्वरित परिकामति ।)

 अरुन्धतीजनकौ-महत्कौतुकं वत्सस्य ।

 कौसल्या----अरण्णगब्भरूवालावेहिं तुम्हे तोसिदा अम्हे अ । भअबदि, जाणामि तं पेक्खन्ती वञ्चिदा विअ । ता इदो अण्णदो भविष पेक्खम्ह दाव पलावन्तं दीहाउम् ।

 अरुन्धती-अतिजवेन दूरमतिक्रान्तः स चपलः कथं दृश्यते ।

 कञ्चकी-(प्रविश्य !) भगवान्वाल्मीकिराह ज्ञातव्यमेतदवसरे भवद्धिरिति ।


१. अरण्यगर्मरूपालाप!य तोषिता वयं च । भगवति, जानामि तं प्रेक्ष्यन्ती बञ्चितेव । तस्मादितोऽन्यतो भूत्वा प्रेक्षामहे' तावत्पलायन्तं दीर्घायुषम् ।


कृतः पशुसमानाये पशुद्रव्यकयागप्रतिपादकवेभागे, साशामिके युद्धकाण्डे व । कीदृशः किलक्षणः ॥ पश्चादित्यादि । सः अश्व इत्युच्यमानः विपुलं पुच्छं पश्चाद्वहति । वनमहिषः कोऽयमुभयतःपुच्छ इत्यारण्यवासनानुरूपेण व्यावृत्त्यर्थः । पश्चास्पदम् । अन्यथा पुन्च्छस्य पश्चाद्वहनाव्यभिचारात् । विपुलमित्यनेन खरव्यावृत्तिः तस्य हि पुच्छं गोवद्रज्जूकृत भवति । एवं च वक्ष्यमाणविशेषणाना तत्साधारणत्वेऽपि न दोषः। धूनोति चालयति । दीर्घग्रीवो भवति आयतकण्ठो भवति । तस्य खुराश्चत्वार एव । 'नाधिका इत्यर्थः । शष्पाणि वालतृणानि अत्ति खादति । शत्पिण्डकान्' पुरीषपिण्डकानानमान्नान् रसालशलाटुपरिमितान् प्रतिरति विक्षिपति । स पुनर्दूर जति गच्छति ॥ २६ ॥ कौतुक हर्षः, उपरोधः बलानियमाणत्वम् ॥ अरण्याओणां अरण्यचरशिशूनां रुपैरालापैश्च तोषिता यूयम् । अह त पश्यन्ती वञ्चितेति जानामि । रामभद्रसंवादेन प्रलोभिताहमिति भावः । कझुकी । गृष्टिरित्यर्थः । अवसरे प्राप्तकाले ॥ एतद्वाल्मीकिवाक्यमतिगम्भीरं गूडाशय किमपि अपूर्वम् ॥ वृद्धानामरुन्धती-