पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२२
उत्तररामचरिते

  एतद्वैशसवज्रघोरपतनं शश्वन्ममोत्पश्यतः
   क्रोधस्य ज्वलितुं झटित्यवसरश्चापेन शापेन वा ।

 कौसल्या-(सभयकम्पम् ।) भैअवदि, परित्ताअदु । पसादेहि कुविदं राएसिम् ।

 लव:-

  एतद्धि परिभूतानां प्रायश्चित्त मनखिनाम् ।

 अरुन्धती-

  राजन्नपत्यं रामस्ते पाल्याश्च कृपणा जनाः ॥ २४ ॥

 जनकः

  शान्तं वा रघुनन्दने तदुभयं यत्पुत्रभाण्डं हि मे
   भूयिष्ठद्विजबालवृद्धविकलस्त्रैणश्च पौरो जनः ॥ २५ ॥

(प्रविश्य संभ्रान्ता बटवः ।)

 कुमार कुमार, अश्वोऽश्व इति कोऽपि भूतविशेषो जनपदेष्वनुश्रूयते, सोऽयमधुनास्माभिः खयं प्रत्यक्षीकृतः ।

 लयः-अश्वोऽश्व इति नाम पशुसमाम्नाये सांग्रामिके च पठ्यते । तद्भूत कीहसः।


१. भगवति, परित्रायताम् । प्रसादय कुपितं राजर्षिम् ।


 पतझैशसेति । एतद्वैशसमेव महाव्यसनमेव वनस्साशने?र पतन तीक्ष्णपातन शश्वदुत्पश्यतो मम क्रोधस्य शापेनानिष्टोपधायकसंकल्पेन चापेन च मारकधनुषा च झटिति ज्वलितुमवसरः प्राप्तकालता । राजर्षित्वादिति भावः । प्रसादय प्रसन्नं कुरु ॥ एतदिति । परिभुतानामतमतानां मनस्विनां महामनसां प्रायश्चित्तं कोपप्रतीकार: एतत् प्रसादनमित्यर्थः ॥ अपत्यं रामः कृपणजनाश्च ते पाल्याश्च रक्षणीयाः ॥ २४ ॥ शान्तं बेत्यादि । वा अथवा । शापेन चापेन च ज्वलनामात्रे इलर्थः । यद्यस्मात्पुत्रमाण्ड पुत्र एव भाण्डं मूलधन पुत्रभूतरामात्मकमूलधनम् । भूयिष्ठानि भूयासि द्विजाः बालाः शिशवः बुद्धाः स्थविराः विकला: अन्धवधिरादयः नेणं स्त्रीसमूहः यस्य तथोक्तः पौरो जनश्च मे हि मदीयाः किल । तस्मात्तदुभयं शापश्चापश्च शान्त भवतु निवृत्त भवतु । रुषं न दधे कोष न धारयामि । यद्वा यद्यस्माद्भयिद्विजबालबविकलौणः पौरो जनः । चकारेण रामः समुचीयते । तदुभयं पौरजनरामात्मकोभयं मे पुत्रमाण्ड पुत्रात्मकमूलधनवन्मम संरक्षणीयं तत्तस्मात् शान्तं क्रोधेन ज्वलित्वा अलं रुषं न दधे क्रोवं न धारयामि । स्थैयद्योतनार्थ द्विःकथनम् ॥ २५॥ बटवः प्रविश्य । अत्र आहुरिति शेषः । भूतविशेषः प्राणिविशेषः । जनपदेषु कोसलादिदेशेषु आरण्यकत्वादेवमुक्तिः । श्रूयते शब्दबोधविषयो भवति । प्रत्यक्षीकृतः चक्षुर्विषयी-