पृष्ठम्:उत्तररामचरितम् (वीरराघवकृतटीकासहितम्).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
उत्तररामचरिते

 जनकः---अतिगम्भीरमेतत्किमपि । भगबत्यरुन्धति, सखि कौसल्ये,आर्य गृष्टे, खयमेव गत्वा भगवन्तं प्राचेतसं पश्यामः ।

(इति निष्कान्तो वृद्धवर्गः।।

(प्रविश्य बदवः ।)

 पश्यतु कुमारस्तावदाश्चर्यम् ।

 लवः-दृष्टमवगतं च । नूनमाश्वमेधिकोऽयमश्वः ।

 बटव:-कथं ज्ञायते ।

 लघः-ननु मूर्खाः, पठितमेव हि युष्माभिरपि तत्काण्डम् । किं न पश्यथ प्रत्येकं शतसंख्याः कवचिनो दण्डिनो निषङ्गिणश्च रक्षितारः। तत्प्रायमेवान्यदपि दृश्यते । यदि च विप्रत्ययस्तत्पृच्छथ ।

 बटव:-भो भोः, किंग्रयोजनोऽयमश्वः परिवृतः पर्यटति ।

 लवा--(सस्पृहमात्मगतम् ।) अश्वमेध इति नाम विश्वजयिनां क्षत्रियाणामूर्जस्वलः सर्वक्षत्रपरिभावी महानुत्कर्षनिकषः ।

(नेपथ्ये।)

  योऽयमश्वः पताकेयमथवा वीरघोषणा।
  सप्तलोकैकचीरस्य दशकण्ठकुलद्विषः ॥२७॥

 लव:-(सगर्वमिव ।) अहो संदीपनान्यक्षराणि ।

प्रभृतीनां वर्गः समूहः ॥ दृष्ट चक्षुर्विषयीकृतम् । नूनमाश्वमेधिकोऽयमश्व इत्सवगतम् अनुमितम् । अश्वमेधाव प्रभवस्खाश्वमेधिकः ॥ तत्काण्डमश्वमेधप्रतिपादकश्रुतिभागः । बालकाण्ड वा तत्रापि ह्यश्वमेधः प्रसक्तः । काण्डोऽस्त्रीत्युक्तेः क्लीबत्वम् । शतं कवचिनः शतं निषङ्गिणः शरविवन्तः। शतमित्यर्थः शतं दण्डिनः शतं रक्षितार इत्येनग्न पश्वथ किमिखर्थः । तत्प्रायमेवान्यदपि कवचिप्रभृतिसुसदृशं चान्यदपि । अनीकमित्यर्थः । विप्रलयो यदि संशयश्चेत् । किप्रयोजनः किंफलकः । परिवृतः । रक्षितृभिरिति शेषः । पर्यटति परिवृतः संचरति परिगतो गच्छति ॥ अनागते वस्तुनीच्छा स्पृहा । सर्वक्षत्रपरिभात्री सकलराजकुलपरिभवजनकः । उत्कर्षनिकषः उपादेयकैलक्षधज्ञापकपद्विशेषः । अर्जखलः बलिष्ठः । अत्रिचा ल्यनिकष इत्यर्थः ॥ योऽयमिति । योऽयमाचमेश्विकोऽश्वः । इयम् । अश्व इलय विधवप्राधान्यात्त्रीत्वं पताकात्व विधेयम् । सप्तावचवेषु लोकेषु एकवीरस्य एकेषु प्रथानेषु वीरयति पराक्रमत इत्ये कधीरः तस्य । सप्तलोकेलन मध्यमपदलोपवत्समासः । पात्रादित्वं बा वीरैक इत्यापत्तिवारणाय एकेषु वीरयतीति विग्रहोऽजीकृतः । दशकण्ठकुलस्य रावणवंशस्य द्विद् शासिता । तस्य राघवस्य पताका विजयध्वजोऽथवा पूर्वोक्तातिरेकेण वीरघोषणा वीर इति जगदाकर्णनानुकूलब्यापारः ॥२७॥ गईः परोकनादरः । संदीपनानि क्रोषजनक्रानि ।