पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्त्राग्निकल्पाधिकारः] पूर्वांर्धे चतुर्दशः पटलः । ज्योतिष्कतैलेन राष्ट्राणि विन्देत । जपेन जलानि रुजोऽपि हन्ति । यत् खलु सिध्यति तज्जप संपदि यदिह जगति जपतु भवति । हैरण्याश्वत्थकल्पद्रुमकुहरगृहान्निष्पतद्वाजिरूपं रोम्णा कूपोद्गतार्चिष्कपिशितगगनं रन्ध्रदेशैर्घनौघम् । ध्यायन् वर्षन्तमग्निं प्रतिपदि जुहुयात् पायसैकाहुतिं स्या- दर्धप्रस्थाज्यपूर्णाम्बरचषकगतां सोऽचिरादार्थनाथः ॥ २५६ ॥ इति निगदितममेरिष्टदं यद्विधानं तदभिनियतकाले त्वाहुतीनां समानम् । अनुजपतु च मन्त्रं तत्फलाप्त्यै द्विजेन्द्रान् रसवदिह समग्रं भोजयेन्नित्यशोऽन्ते ॥ २५७ ॥ दशांशविप्रभोजनं तु मुख्यमाहुतिक्रमात् तथैव पञ्चविंशदंशभोजनं तु मध्यमम् । शतांशमप्यथाघमं तु शक्तितस्तदूहयेत् समाप्तिदानभोजनं च देवताभिपूजनम् ॥ २५८ ॥ तथैव दक्षिणापि मानहेम चाहुतेः स्मृतं स दैविके तु पौष्टिके वशीकरे च कर्मणि । विरञ्जने प्रचाटने निरोधने द्विमानकं रुजि भ्रमे च सादने त्रिमानकं विनिर्दिशेत् ॥ २५९ ॥ तथैव कृष्णलामितं हिरण्यमेव मारणे तथाहि तत्त्वसागरे प्रपञ्चके च दर्शितम् । दहेद् विहीनदक्षिणाप्रयोगकारिणं नरं त्वतो न हीनदक्षिणां प्रयोजयेच्च बुद्धिमान् ॥ २६० ।। इयं हि दक्षिणोत्तमा तु मध्यमाध्यतोऽर्धत- स्तदर्घतोऽधमा भवेत् तु शक्तितः प्रकल्पिता । किमस्य दक्षिणोच्यते यदस्य कर्मणः फलं