पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ ईशानशिवगुरुदेवपद्धतौ अथाभिचारकेषु वह्निकुण्डसाधनादिकं समुत्सृजेदरे: पुरे तथाम्बुधौ सरित्सु इव । करोतु तत्र शान्तिकं सदानधर्मपूजनं यथा स्वदेहदेशवंशरक्षणं कृतं भवेत् ॥ २१२ ॥ तथैव शान्तिकादिकानि दक्षिणावसानिकं समाप्य वैदिकाग्निकल्पदर्शितक्रमेण वा । निरुध्य दैवतं च वह्निमम्बरेन्दुपङ्कजे नियोजयेत चामृताम्बुशीकरप्रवर्षिणि || २६३ || इतीह तत्त्वसागरादितन्त्रचोदितो विधि- स्तथैव वैदिकप्रयोगवृत्तिगृह्यदर्शितः । शिवागमोदितश्च यो निरूप्य संप्रदर्शितः प्रयोगतस्तु साघकैरलं निषेव्यतां सुखम् ॥ २६४३ ॥ इति श्रीमदीशान शिवगुरु देवपद्धतौ तन्त्रसारे अग्निकल्पविधिर्नाम चतुर्दशः पटलः । इति सामान्यपादः प्रथमः समाप्तः । शुभं भूयात् । [सामान्यपाद: