ईशान शिवगुरुदेवपद्धतौ [सामान्यपादः साज्यं गव्यं पायसं वा जुहोतु नित्यं क्षीरं कापिलं गोघृतं वा । बन्धूकैर्वा क्षौद्रसिक्तैश्च पुप्पैर्लक्ष्मी कामो मासमष्टौ सहस्रम् ॥ २४६ ॥ क्षीराहार: शोणगोक्षीरहोमी लक्ष्मी विन्देताक्षयां मासमात्रात् । मेधाकामः पौर्णमासीषु लक्षं स्पृष्टं (?) ब्राह्मं वा घृतं प्राश्य विन्देत् ||२४७|| लक्षं हुत्वा साज्यदूर्वाङ्कुराणां मृत्युं जित्वा दीर्घमायुश्च विन्देत् । हुत्वा चैकामाहुतिं सन्निधत्ते मन्त्रेणादौ चाखिलेष्वध्वरेषु ॥ २४८ ।। आहवन्त्यादिना प्रातरग्नेस्तिथौ पायसं सर्पिषा साष्टसाहस्रकम् । यज्जुहोत्यक्षयामाहवत्येव तद्वस्त्रहेमान्नगास्त्वावहन्तीं श्रियम् ॥ २४९ ॥ अस्यात्यनुष्टुप्च्छन्दः स्यादृषिरक्तस्तु काश्यपः । भद्राग्निर्देवता प्राग्वदङ्गान्यपि च साधनम् ॥ २५० ॥ प्राजापत्यं पङ्क्तिसहस्रं तु जपित्वा साज्यं दध्ना चौदनहोमादपि लक्ष्मीः । आज्या(भ्य)क्तैः शालिहुताद् वा प्रतिपत्सु प्रोक्तैर्द्रव्यैर्व्याहृतिभिर्वा हवनं स्यात् ॥ त्रिष्टुबस्य भवेच्छन्दो मरीचिर्भगवानृषिः । प्रजापतिर्दैवतं च साधनाङ्गानि पूर्ववत् ॥ २५२ ॥ उद्धृत्योत्तिष्ठशब्दः पुरुषहरिपदे सर्धिचन्द्राक्षिपार्श्व स्वान्तं मांसं च देहिद्वयमपि च ततो वामपादस्य मध्यम् । दीर्घोऽत्रिः पार्श्वमन्ते मरुदिति गदितो वह्निजायान्त एषो वह्नेस्तारद्वयान्तो मनुरखिलजगत्काम्यकल्पद्रुमोऽसौ ॥ २५३ ।। अस्यच्छन्दस्तु गायत्री मुनिरप्यङ्गिरा भवेत् । भृगुरिति केचन । देवता स्वयमेवाग्निरश्वरूपी हिरण्यदः || २५४ ।। नित्यं वा प्रतिपदि वा सकृत्तिकायां शाल्यन्नैर्वृतमिलितैर्जुहोतु लक्ष्म्यै । दध्यन्नं घृतमथवा शमीसमिद्भिर्हुत्वेष्टां खलु लभते महासमृद्धिम् ॥ २५५ ॥ राज्यं यत् स्वेष्टां लक्षार्धं तो विन्देत् | सरोजैर्हुतैः स्यात् सलभ्यं पुराभ्न । पैम्पलैरिथ्मकैः कन्यकां प्राप्नुयात् । घृतचरणा दिजय रूपते
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२७७
दिखावट