[सामान्यपादः ईशान शिवगुरुदेवपद्धतौ विभाव्यानासमुद्धृत्य तस्याभ्यर्च्य स्वविष्टरे । ओं हां विष्णवे यज्ञारिसूदनाय नमः | इति कूर्चाहितं विष्णुं प्रणीतायां प्रपूजयेत् ॥ ११७ ॥ ततः परिधिदर्भस्थान् ब्रह्माणं शङ्करं हरिम् । अनन्तं च चतुर्दिक्षु तारं हांनामतोऽर्चयेत् ॥ ११८ ॥ लोकेशानपि रक्षार्थं स्वदिक्ष्वाराध्य तु क्रमात् । तदस्त्राणि च तद्दिक्षु शिवाज्ञां श्रावयेत् ततः ॥ ११९ ।। भो भो ब्रह्मेन्द्र विष्ण्वाद्या देवाः सास्त्राः शिवाज्ञया । स्वस्यां स्वस्यां दिशि स्थित्वा रक्षध्वं वह्निबासकम् ॥ १२ ॥ स्रुक्स्रुवावपि चादाय निरीक्ष्य सकुशौ हृदा । प्रताप्यास्त्रेण संक्षाल्य शिरसोर्ध्वमुखौ हृदा ॥ १२१ ॥ प्रताप्य क्षालयित्वाथ मूलमध्याग्रतः कुशैः । ओं हां आत्मतत्त्वाघिपतये ब्रह्मणे नमः | ओं ह्रीं विद्यातत्त्वाधिपतये विष्णवे नमः | ओं हुं शिवतत्त्वाधिपतये रुद्राय नमः । इति क्रमेण संमृज्य संक्षाल्याभ्यर्च्य तत्त्रयम् ॥ १२२ ॥ ओं हौं शक्तये नमः । इति स्रुचं समाराध्य ओं हां शिवाय नमः । स्रुवं चानेन पूजयेत् । त्रिसूत्र्यावेष्टितग्रीवो नो चेद् दर्भेण दक्षिणे ॥ १२३ ॥ कुशासने तौ संस्थाप्य ततो गव्यं नवं शुभम् । आज्यं निरीक्षणाद्युक्तचतुस्संस्कारसंस्कृतम् || १२४ ॥ ब्राह्मीं स्वमूर्ति सञ्चिन्त्य कुण्डोर्ध्वानलकोणके । प्रताप्यानेन जुहुयात् ओं हां ब्रह्मणे स्वाहा । पुनरैशे प्रताप्य तु ॥ १२५ ॥ जुहुयाद् विष्णवे चेति विष्णुमूर्तिः स्वयं ततः । रविता कशायेण घतबिन्द्र प्रताप्य च ॥ ११६ ।। १२८
पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६५
दिखावट