एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
१२९ शैवाग्निकल्पाधिकारः] पूर्वार्धे चतुर्दशः पटलः । ततो रुद्रतनुर्वह्निं त्रिः परिभ्राम्य तद् घृतम् | ओं हां रुद्राय ठठ।
हुत्वानेन कुशाग्रेण योन्यां दर्भेषु विन्यसेत् ॥ १२७ ॥
कुशद्वयाग्रं प्रज्वाल्य घृते प्रक्षिप्य तं हृदा ।
पुनरग्नौ क्षिपेद् दर्भ पवित्रीकरणं तु तत् ॥ १२८ ॥
कवचेन घृतं वीक्ष्य शिष्टं दर्भोल्मुकं क्षिपेत् ।
अग्नौ तद्रञ्जनं हस्तौ प्रक्षाल्यादाय वै कुशम् ।। १२९ ॥ प्रज्वाल्याज्ये समावर्त्य क्षिप्त्वाभिद्योतनं भवेत् ।
स्वदक्षिणोत्तरौ हस्तौ पक्षौ शुक्लेतरौ स्मरन् ॥ १३० ॥ स्वाङ्गुष्ठानामिकाभ्यां तु प्रोत्तानाभ्यां पवित्रकम् ।
प्राचीनमाज्ये प्रक्षिप्य दक्षिणोत्तरभागयोः ॥ १३१ ॥
आज्ये पूर्वापरौ पक्षौ सोमाप्यांपचयान् स्मरन् (१) ।
पिङ्गलां भावयेच्चेडां सुषुम्नां मध्यतस्तथा ।। १३२ ॥
ओं हां अग्नये ठठ।
अनेन दक्षिणाज्यांशात् स्रुवेणाक्षिणि दक्षिणे । हुत्वा चामन्त्र्य भागेन ओं हां सोमाय ठठ ।
वह्वेर्वामविलोचने ॥ १३३ ॥
ओं हां अग्नीषोमाभ्यां ठठ।
इति मध्वाज्यभागेन हुत्वा लालाटनेत्रके । ओं हां अग्नये स्विष्टकृते ठठ। इत्याज्यभागत्रितयाधुत्वाग्नेर्मुखकल्पना ॥ १३४ ॥ ___
क्रमोऽयं पूर्वपक्षे स्याद् विशेषोऽस्त्यसिते यथा ।
ओं हां अग्नये ठठ ।
ओं हां सूर्याय ठठ । ओं हां अग्नीषोमाभ्यां ठठ । ओं ओं हां अग्नये स्विष्टकृते ठठ ।
एवं नेत्रत्रयं चाग्नेः स्याद् वक्रोद्धाटनं तथा ॥ १३५॥ १. 'यत स्म' क.. 'यात्मनुत् स्म' ग. पाठः.