पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

भावाग्निकल्पाधिकारः] पूर्वार्धे चतुर्दशः पटलः । तमावाह्येति शिरसा हुत्वा पुंसवनं भवेत् ।

ओं हुं अघोराय नमः।

आवाह्यैनं शिखामन्त्राद्धृत्वा सीमन्तसिद्धये ॥ १०६ ॥ ओं हां पुर्यष्टकदेहाय नमः । जलबिन्दंु कुशास्त्रेण देहप्राणकृते क्षिपेत् ।

शिखयार्ध्यादिति यावत् ।

सद्यादिभिस्तिलैर्तुत्वा वक्राङ्गानि च कल्पयेत् ॥ १०७ ।।

वक्रनिष्कृतिनिष्पत्त्यै पुनः पञ्चाहुतीस्तथा ।

हुत्वा प्रसूतां वागीशी शिशुममग्निं च संस्मरेत् ॥ १०८ ॥

ओं हे तत्पुरुषाय नमः ।

आवाह्य पुरुषं त्वेवं वर्मणाहुतिपञ्चकम् ।

हुत्वास्त्रेणाऱर्ध्यातोयेन बहिरन्तरवोक्ष्य तु ॥ १०९ ॥
दर्भकरणकं त्यक्त्वा सूतकस्य निवृत्तये । 

स्नातां विभूषितां देवी देवं चास्त्राम्बुसेकतः ॥ ११ ॥

वस्त्रभूषणगन्धाद्यैरलङ्कृत्याथ तौ धिया ।
ततः शूलापनोदाय जुहोत्यस्त्रात् पलाशजाः ॥ १११ ॥
वितस्तिमात्राः पञ्चाग्रसमिघो घृतसेचिताः । 

उत्तरेण तु दर्भेषु पात्रद्रव्याणि सादयेत् ॥ ११२ ॥

परिस्तरणमप्यत्र कृत्वा वेण्या कुशैरपि ।
दर्भासनानि विन्यस्य प्रोक्षण्यै ब्रह्मणे तथा ॥ ११३ ॥
प्रणीतानां च परिधीन् विन्यस्य परिषेचयेत् । 

तिरःपवित्रेणापूर्य प्रोक्षणीं सलिलेन तु ॥११॥ निवृत्त्यादिकलाभिस्तु परिषच्य यथाक्रमम् ।

दर्भण शिवगायत्र्या तथा परिसमूह्य तु ॥ ११५ ॥
ओं हां ब्रह्मणे यज्ञाध्यक्षाय नमः ।
इति ब्रह्माणमावाह्य द्विजं वा कूर्चमर्चयेत् ।