________________
ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः मध्येऽत्र सूत्रं वरुणेन्द्रदीर्घं निवेश्य चास्फाल्य तु तस्य मध्ये ।
बिन्दुं विधायापरपूर्वयोस्तदथाङ्कयेत् सूत्रवशात् समानम् ॥ ५॥ __
_पुनस्ते सूत्रखण्डे तु समं भित्त्वाङ्कयेदपि । बिन्दोस्तु पूर्वापरमध्यमाङ्कैर्मितेन सूत्रेण तदाहितेन ।
बिन्दोः सयाम्योत्तरदिक्समाङ्कभ्रमैः समालिख्य तु मत्स्ययुग्मम् ॥ ६ ॥
तयोर्निधाय सूत्रं स्याद् दक्षिणेनोदगायतम् ॥ ७ ॥ इत्थं ब्रह्माह्वयं सूत्रमुदक्सूत्रं च साधयेत् ।
क्षेत्रार्धमानेन तु बिन्दुसंस्थश्चतुर्दिशं सूत्रवशाद् यथेष्टम् ।
अङ्कान् विधायाथ तदङ्कयुग्मात् सूत्रद्वयात् स्युः खलु कोणमत्स्याः ॥८॥ तेषु मत्स्येषु परितो दिक्षु सूत्रैर्निपातितैः ॥९॥
चतुरश्रं भवेत् क्षेत्रं चतुष्कोष्ठं समं शुभम् ।
सर्वमण्डलकुण्डादेः सामान्योत्पत्तिकारणम् ॥ १० ॥ चतुरश्रसाधनम् । कुण्डं प्रशस्तं चतुरश्रमादावश्वत्थपत्रं च तथार्धचन्द्रम् ।
तद्वत् त्रिकोणं त्वपि वर्तुलं स्यात् षट्कोणकं पद्ममथाष्टकोणम् ॥११॥
रत्निमात्रं शतार्थे स्याच्छतहोमे त्वरत्निकम् ।
सहस्रे हस्तमानं स्यादयुते च द्विहस्तकम् ॥ १२ ॥ लक्षे चतुष्करं कुण्डं दशलक्षे तु षट्करम् ।
कोटिहोमेऽष्टहस्तं स्याद् यथा भोजेन्द्रपद्धतौ ॥ १३ ॥
सर्वाणि कुण्डानि यथोक्तमानादायामविस्तारसमानि तानि ।
खातं तु विस्तारसमं विधेयं तिस्रः क्रमाञ्चोपरि मेखलाः स्युः ॥ १४ ॥ ___
समं स्यात् सर्वतः खातं खातोपरि चतुर्दिशम् ।
एकाङ्गुलं परित्यज्य कुर्यात् तिस्रोऽथ मेखलाः ॥ १५ ॥
रत्निप्रमाणे खलु मेखला स्यादाद्याङ्गुलाभ्यामपराङ्गुलेन ।
अर्घाङ्गुलाद्या त्वथवा त्वरत्नौ त्रिद्व्येकमात्राङ्गुलकैर्विधेया ॥ १६ ॥ ... 'शाद्विधा' ग, पाठः. १. 'चतुष्करम्', ३, ४ 'त्या' ख. पाठ::