पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कण्डर पञ्चकोणकुण्डाधिकारः] पूर्वार्धे षष्ठः पटलः।

अत्र भोजराजः

"कुण्डहस्तप्रमाणस्याद्या द्व्यङ्गुला द्वितीयाङ्गुलेनार्धाङ्गुलेन च । तृतीया अरत्निप्रमाणस्य व्यङ्गुलद्वयङ्गुलाङ्गुलमाना" इति ।

.हस्तकुण्डे मेखलाः स्युश्चतुस्त्रिद्वयङ्गुलाः क्रमात् । .

षट्चतुस्त्र्यङ्गुलैः कुर्याद् द्विहस्तेऽपि यथाक्रमम् ॥ १७ ॥

चतुष्करे त्वष्टेकषट्चतुष्कैः षड्ढस्तके चापि दशाष्टषड्भिः ।
स्युरङ्गुलैरष्टकरेऽपि कुण्डे ताः षोडशद्वादशकाष्टसंख्यैः ॥ १८ ॥

सर्वाः सर्वेषु कुण्डेषु विस्तारोच्छ्यतः समाः। .. .

परितः स्वसमायामा निम्नोन्नतविवर्जिताः ॥ १९ ॥
अत्र भोजराज:"क्रमेण सर्वकुण्डेषु तिम्स्त्रो मेखलाः कुण्डानुरूपेण विधातव्याः" इति ।

कुण्डस्य पश्चिमे योनिं कुर्याद् दक्षिणतोऽपि वा । मध्यतो मेखलानां तु सर्वासामुपरि स्थिताः ॥ २० ॥

सूर्याङ्गुलायामवती तु योनिरामूलतोऽग्राद् वसुवेददक्षैः ।
विस्तारतः स्यात् क्रमशोऽङ्गुलोच्चा द्राङ् निर्गताग्रापि च रत्निकुण्डे ॥ २१॥ _
अरल्यादिषु कुण्डेषु द्वयङ्गुलं व्यङ्गुलं पृथक् ।

क्रमादायामविस्तारवृद्धचा योनिर्विधीयते ॥ २२ ॥

अत्र भोजराजः --

____एवं प्रथमकुण्डस्य । शेषाणां द्वयङ्गुलवृद्धया योनिर्विधातव्ये "ति ।

मञ्जर्या च हस्तमात्रकुण्डस्य -

" तालायता जलपतेर्दिशि संस्थिता स्या दश्वत्थपत्रसदृशी क्रमशोऽथ निम्ना ।

नाभिर्दशाङ्गुलषडङ्गुलतः क्रमेण

विस्तारतश्च चतुरङ्गुलगोलकाग्राः ॥” इति च । चतुरश्रं तु वा वृत्तं कुण्डं नित्ये च शान्तिके।

सार्वकामिकामित्यन्ये चतुरश्रं च वर्तुलम् ॥ २३ ॥

१. 'लमा' ख. पाठः... 'नीति यो ग पाठः,