पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुरसाधनम् ] पूर्वार्धे षष्ठः पटलः । ४७ विजयेन यथैवमासनानां फलमेकाग्रतया मनःप्रसादः । मन एव हि सर्वकारणं तत् स्ववशं चेद् विजितं हि किं न सर्वम् ॥७८ आप्यं मण्डलमुच्यतेऽत्र पुरतो यत् तत्र शान्त्यादिकं भौमं वाखिलनित्यपौष्टिकविधौ शस्तं त्वथो मारुतम् । द्वेषोञ्चाटनकेषु संवननकेऽप्याग्नेयमाकर्षणे संस्तम्भे खलु भौम मैन्द्रमथवा स्याच्छान्तिके पौष्टिके ॥ ७९ ॥ मारणं तु विदधीत वायुना वेष्टितानि कुलिशाङ्कमण्डले । बह्निसंपुटषडश्र केऽथवा शान्तिकान्यपि वशीकराण्यपि ॥ ८० ॥ आसनाद्यधिकारः । विज्ञायैतदशेषमेव बिधिना विद्याविशिष्टाद् गुरो- स्तत्तत् कर्म समादधीत नियतं संसिद्धमन्त्रात्मवान् | यद् यत् स्वार्थपरार्थकारणतया कृत्यं भवेत् साधकः कृत्वा तत् फलमश्नुते स्म भुवने संजाततत्प्रत्ययः ॥ ८१ ॥ इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे साधनपटलः पञ्चमः । अथ षष्ठः पटलः । अत्राग्निकुण्डानि च मण्डलानि प्रत्येक शस्तान्यथ तेषु तेषु । 'तन्त्रेषु यानि प्रथितानि सम्यक् संक्षिप्य वक्ष्यामि यथाप्रधानम् ॥ १ ॥ वेदाश्रकं शान्तिक पौष्टिकादौ वृत्तं च योनिप्रतिमं हि वश्ये । आकृष्टयेऽश्वत्थदलं तु कुण्डं स्तम्भेऽष्टकोणं भ्रमणे षडश्रम् ॥ २ ॥ वज्राङ्ककोणत्रिषडश्रकुण्डे स्यातां द्विषन्मारणचाटनादौ । सर्वाणि कुण्डानि हरित्सु कुर्याल्लिङ्गप्रतिष्ठासु च देवतानाम् ॥ ३ ॥ प्रासादे मण्डपे वापि गृहे वा यत्र कर्म तत् । क्रियते तत्र संशुद्धे स्थले गव्योपलेपिते ॥ ४ ॥ १. 'क्ष्ये' पाठः, +