पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (प्रथमः भागः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः

वृषगतशितिवर्णस्तुर्यवक्रोऽष्टबाहु

र्मरुदनलपतिर्वः कोटिमानस्त्रिशूली । मुसलपरशुशक्तीस्तोमरं भिण्डिपालं दधदवतु च दण्डं प्रासमप्येष डिण्डी ॥ ४५ ॥

असितमथ यमेशं षड्भुजं वस्त्रिवक्त्रं

भुजगवलयहारं शूलटङ्कासिदण्डान् ।

कुलिशमपि भुसृण्ठिं षण्डमव्याद् दधद् य

न्माहिषगतकरोटौ कोटिमानोऽत्रिसंज्ञम्(?) ॥ ४६॥

मृगवरमधिरूढो यः स सर्पोपवीतो

निर्ऋतिपतिरुदग्रः खड्गपाशो भुसृण्डीम् ।

दधदतिकपिशोऽव्यान्मुद्गरी योऽब्जपीठे __
प्रतिभयरिपुभेदी यश्चतुर्लक्षमानः ॥ ४७ ॥
द्विभुजमसितवर्णं व्याघ्रचर्मोत्तरीयं ____
डमरुकमपि शूलं बिभ्रदारक्तनेत्रम् ।
चिरमवतु पिशङ्गैरम्बराद्यैर्युतं वो

दशशततति नाख्यं काकवाहं च षण्डम् ॥ १८ ॥ गरुडमधिगतोऽब्जे सर्पयज्ञोपवीती दशवदनसिताङ्गो विंशतिं यो भुजानाम् ।

दधदपि मणिचित्रः पातु कोटिप्रमाणो

विविधविषहरोऽसौ ब्राह्मणो लोहितार्णः ॥ ४९॥

परशुरथपदाढ्यः सिंहपद्माधिरूढः

प्रविततदशकोटियुग्मबाहुर्द्विजन्मा।

हरतु भवदरिष्टं मौक्तिकब्रह्मसूत्र

स्तडिदनलपिशङ्गो यः शिखी रक्षणेष्टः ॥ ५० ॥ कुवलयविनिविष्टो हंसवाहः षडास्यो धनपतिपतिरब्जं शङ्कमप्यादधानः ।