एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
ईशानशिवगुरुदेवपद्धतौ [सामान्यपादः
वृषगतशितिवर्णस्तुर्यवक्रोऽष्टबाहु
र्मरुदनलपतिर्वः कोटिमानस्त्रिशूली । मुसलपरशुशक्तीस्तोमरं भिण्डिपालं दधदवतु च दण्डं प्रासमप्येष डिण्डी ॥ ४५ ॥
असितमथ यमेशं षड्भुजं वस्त्रिवक्त्रं
भुजगवलयहारं शूलटङ्कासिदण्डान् ।
कुलिशमपि भुसृण्ठिं षण्डमव्याद् दधद् य
न्माहिषगतकरोटौ कोटिमानोऽत्रिसंज्ञम्(?) ॥ ४६॥
मृगवरमधिरूढो यः स सर्पोपवीतो
निर्ऋतिपतिरुदग्रः खड्गपाशो भुसृण्डीम् ।
दधदतिकपिशोऽव्यान्मुद्गरी योऽब्जपीठे __ प्रतिभयरिपुभेदी यश्चतुर्लक्षमानः ॥ ४७ ॥ द्विभुजमसितवर्णं व्याघ्रचर्मोत्तरीयं ____ डमरुकमपि शूलं बिभ्रदारक्तनेत्रम् । चिरमवतु पिशङ्गैरम्बराद्यैर्युतं वो
दशशततति नाख्यं काकवाहं च षण्डम् ॥ १८ ॥ गरुडमधिगतोऽब्जे सर्पयज्ञोपवीती दशवदनसिताङ्गो विंशतिं यो भुजानाम् ।
दधदपि मणिचित्रः पातु कोटिप्रमाणो
विविधविषहरोऽसौ ब्राह्मणो लोहितार्णः ॥ ४९॥
परशुरथपदाढ्यः सिंहपद्माधिरूढः
प्रविततदशकोटियुग्मबाहुर्द्विजन्मा।
हरतु भवदरिष्टं मौक्तिकब्रह्मसूत्र
स्तडिदनलपिशङ्गो यः शिखी रक्षणेष्टः ॥ ५० ॥ कुवलयविनिविष्टो हंसवाहः षडास्यो धनपतिपतिरब्जं शङ्कमप्यादधानः ।