पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

इंशानशिवगुरुदेवपद्धतौ [मन्त्रपादः

पूर्णचन्द्रानना चन्द्रमौलिं शिवां षड्भुजां बिभ्रतीं पाशमप्यकुशम् । ।
पारिजातस्पृशं दक्षिणे सव्यतः सत्कपालामृतां वादयदल्लकीम् ॥ १० ॥ .
सर्वतः सुन्दरीं द्राङ् मदाधूर्णितां चिन्तयन् पार्वतीमर्चयेत् साधकः ।
हेमबेरेऽपि वा चारुचित्रेऽथ वा द्रव्यसम्पन्न चेत् स्वैक्यतो वा धिया ॥११॥ ___

अथ पूर्वादिमध्यान्तं नव शक्तीरर्चयेत् । इं नित्यायै । ई सुभद्रायै ।

उं मङ्गलायै । ऊ नरवीरिण्यै । एं सुभगायै । ऐं दुर्गायै । ओं मनोन्मन्यै ।

औं मदद्रवायै । अं काममन्दिरायै। दिक्ष शक्तीरिमाश्चारुरूपारुणा रक्तगन्धाम्बरा भूषिताङ्ग्यः स्थिताः ।

वादयन्तीः समं वल्लुकीश्चिन्तयन् साहयैः पूजयेन्मन्मथाघूर्णिताः ॥ १२ ॥

ओं अं अनङ्गाय । ओं स्मराय । ओं मन्मथाय । ओं कामाय । ओं .. कुसुमायुधाय। रक्तगन्धाम्बरांश्चारुवेषाकृतीन् पुष्पचापं शरं पाशमप्यङ्कुशम् । बिभ्रतश्चेषुधी पञ्च कामानिमान् दिक्षु चैवाग्रतो बाह्यतः पूजयेत् ॥ १३ ॥ सर्वे लकुळीकामस्वाख्या नमोन्तमिति यावत् (१)। जं रत्यै नमः । जां विरत्यै नमः । जिं प्रीत्यै नमः । जीं विप्रीत्यै नमः । जुं मत्यै नमः । जूं.दुर्मत्यै। जों धृत्यै। जौं विधृत्यै । जे कृष्टयै । जः पुंष्टयै नमः । ___कामानां पार्श्वयोर्द्वै द्वे दशैताः क्रमशोऽर्चयेत् । वीणाकराश्च गायन्त्यो रक्ता रक्ताम्बरादिकाः ॥ १४ ॥

तद्बहिर्लोकपान् सास्त्रवाहादिकान् स्वावकाशस्थितान् पूजयेत् स्वाख्यथा ।
पायसं सैक्षवं क्षौद्रसर्पिःप्लुतं मोदकैरन्वितं यन्निवेद्यं भवेत् ॥ १५॥
नालिकेराम्बु च स्वादु पानीयकं हस्तसेकं तथा साङ्गताम्बूलकम् । 

स्यात् प्रदेयं ततो नृत्तगीतादिभिः स्तोत्रवन्मङ्गलैस्तोषयेत् पार्वतीम् ॥ १६ ॥ पूजाधिकारः। अनुलोमतोऽपि च विलोमगतैलिपिवर्णकैः सह मर्नु जपतः । वशनेति विश्वभुवनं त्वचिरात् प्रमिताक्षरापि च भवेत् कविता ॥ प्रमिताक्षरा। १. 'तु', २. 'कृ' ख. पाठः.