पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

८० ईशानशिवगुरुदेव पद्धतौ प्राचीनोदीच्यतिग्मांशुरेखाः करककोष्ठके ।

रेखाग्रजम्भशूलाढ्ये चक्रे भूर्जादिकेऽर्पिते ॥ ४९ ॥ 

मध्ये संज्ञां तु कोणेषु तारं फट् दिक्षु मध्यतः । कोणे तारादिमन्त्राणां तत्फडन्तान् यथा तथा ॥ ५० ॥ संलिख्य तत्रोभयथा दिक्षु मूलाष्टकं भवेत् ।

विंशतिः प्रणवास्तस्मिन् भवन्ति श्रुतिकोणगाः ॥ ५.२ ।।
सर्व कोष्ठेषु नामार्णान् क्रमादेकैकशो लिखेत् ।
जपहोमार्चितं चक्रं धृतं सर्वग्रहार्तिजित् ॥ ५२ ॥

त्रोतलाचक्रम् । [मन्त्रपाद: अथवात्र चतुष्कोणप्रणवानां चतुष्टयात् ।

लेख्या पुरोवत् त्वरिता संज्ञार्णसहिता क्रमात् ॥ ५३ ॥

एतत् तु त्वरिताचक्रं ग्रहभूतनिवारणम् । दशार्णस्य मनोरस्य द्वितीयं च तृतीयकम् ॥ ५४ ॥

षष्ठं च वर्णमुद्धृत्य सिध्येन्मन्त्रस्त्रिकण्टकी ।
शिरोललाटास्यहृत्सु नाभिगुह्योरुजानुषु ॥ ५५ ॥ 

अङ्घ्रयोश्च त्वरितावर्णान् मुक्ततारान् नव न्यसेत् । शरदस्ररसैर्वसुनन्दपरैर्निजजातियुतस्त्वरिताक्षरकैः । षडपीह तदङ्गमनून् रचैयेद् गुणलक्षजपेन तु सिद्धिमियात् ॥ ५६ ॥ चरणादसितामपि नाभितटादथ चागैलकं नवयावकभाम् शशिशुभ्रमुखीं च गलात् परतो धृतचन्द्रकलां जटिलां त्रिदृशम् || ५७ || उदरेवदनैरसितैर्भ्रुकुटीकुटिलैर्भयदैः सितदंष्ट्ररदैः । अहिभूषणकैरपि वेदमितैर्वमदग्निशिखैः परितोऽपि युताम् ॥ ५८ ॥ सितशङ्खमरिं त्वथ दीपयुगं दधतीं च भुजैः सममूर्ध्वमधः । इति शैलसुतां तु निजैक्यगतामभिचिन्त्य जपादिकमिष्टकरम् ॥ ५९ ॥

स्वैक्यं त्रिकण्टकीं ध्यात्वा मुद्रां बद्ध्वा त्रिशूलिनीम् ।
जपन् वीक्ष्य ग्रहग्रस्तान् नश्यन्त्याविश्य ते क्षणात् ॥ ६० ॥

१. 'कीम्', २. 'व' ३ 'गु', ४ 'द' रह. पाठः ५. 'वि' ग. पाड