पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे द्वाविंश: पटलः । ता] धनेश्वरेशान दलद्वये त्विमे गायत्र्यै नमः । प्रणीतायै नमः । तथाष्ट शक्तीस्तु दलाग्रगाः पुनः ॥ २३ ॥ हुं रावायै खेचर्यै चण्डायै छेदिन्यै क्षेपण्यै स्त्रियै हुंकार्यै क्षेमकारिकायै ।

इमास्तु लोकाधिपवर्णवाहनास्तदायुधाः सप्त यजेदथाष्टमीम् ।
सुभीषणां शूलकपालधारिणीं सजानुहस्तोत्थितविग्रहां भुवम् ॥ २४ ॥ ज्वलत्रिणेत्रोग्रमुखीं दिगम्बरां सभूतविघ्नारिभयार्तिनाशनीम् ।
इति स्मरेत् क्षेमकरीं स्वनामभिः सशक्तिबीजादिनमोन्तकैस्तु ताम् ।। २५ ।।

पुरस्तु फट्कारिणिकां धनुर्धरां रसस्य वामे गुलिकां च बिभ्रतीम् ।

सहेमवेत्रां विजयां जयां तथा सुभूषिते द्वारि बहिः स्थिते यजेत् ॥ २६ ॥ 

किङ्कर ! रक्ष त्वरिताज्ञां स्थितो भव फट् । अनेन कृष्णं त्वथ किङ्करं बहिः सुमण्डितं दण्डधरं तु बर्बरम् ।

लकुलिने नमः । इति किङ्करस्य चेटं कान्तां तादृशमर्चयेत् ।

यजेच्च लोकाधिपतीन् स्वदिग्गतान् निर्माल्यधारिण्यै चण्डायै नमः । अनेन चण्डामपि चेशादिगताम् ॥ २७ ॥

सर्वान् स्वनामभिः नमोन्तकमभ्यर्च्य देवीं षोडशोपचारैः परिवारान् पञ्चोपचारैर्यथाविभवमर्चयेत् ।

विचित्ररक्ताम्बरगन्ध + + + + + पुष्पाक्षतमाल्यदर्पणैः । सधूपदीपैर्मधुमूलपायसैर्गुलान्नशुद्धान्ननवाज्यमोदकैः ॥ २८ ॥ इष्ट्वा निवेद्य शीताम्बुताम्बूलाद्यं च भक्तितः ।

निवेद्यशेषमध्वाज्यतिलैः पुष्पैस्तथानले ॥ २९ ॥
देवीमावाह्य जुहुयात् पञ्चविंशतिसंख्यया ।
गायत्र्या चापि मूलेन नित्यमङ्गैर्दशांशतः ॥ ३० ॥

१. 'यै । अ’ख. पाठः. 1