पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७६ ईशानशिवगुरुदेवपद्धतौ [मन्त्रपादः श्यामलां अमरबर्बरकेशीं गुञ्जदामचितहेमकिरीटाम् ।

शारदेन्दुवदनां त्रिदृशं तां तुङ्गपीवरकुचां तनुमध्याम् ॥ १३ ॥ स्वंसचास्त्सुकुमारभुजस्रक्कन्दली सुरुचिराङ्गुलिपाणिम् !
सूरुजानुचरणाम्बुजयुग्मां सर्वकान्तिसमवाय सुरूपाम् ॥ १४ ॥ विप्रराजमणिगन्त्यजनागैः कर्णबाहुकटिपाद विभूषाः । 

बिभ्रती बनजमाल्यविशेषैर्भूषितां किसलयांशुकिनीं ताम् ॥ १५ ॥ बर्हिपिञ्छवलयां च मयूरच्छत्रचामरयुगध्वजयुक्ताम् । चिन्तयन् शबरिकापरिवारां स्वैक्यतोऽर्चनविधावपि वा ॥ १६ ॥ सकृदपि निगदितरूपाद्यां स्मरति ह यजति च गौरीं यः ।

स्वभिमतमिह यदसौ विन्देद् वरफलमिव पतितं वृन्तात् ॥ १७ ॥ वृन्ता |

अथ हिमगिरितटभुविचिन्त्यं सुरुचिरमुरुतरमुद्यानम् | स्थलमपि मणिमेयमस्यान्तर्वसुहरिधृतरुचिरं पीठम् ॥ १८ ॥ शक्तिमस्य मध्यतस्तु धारिणीं विद्रुमद्रवद्युतिं विचिन्तयेत् ।

पत्रजालशोभितं तदुत्थितं श्येनिकोद्गमोपमं च पङ्कजम् ॥ १९ ॥ श्येनिका ॥
सूर्य सोमवह्निमण्डलैः क्रमाद् ब्रह्मविष्णुरुद्रदेवतैश्च तैः । 

पत्रकेसरालिकर्णिकागतैः : स्वाख्ययात्र पूजयेन्नमोन्तकम् ॥ २० ॥ अथ जगत्यां ततोऽम्बराम्भोरुहचन्द्रपङ्कजे दलाग्रवंशस्थकलामृतस्रुतौ । चिंर्ति लसत्तारक संक्रमद्युर्ति सशक्तिपुष्पाञ्जलियोजितां स्मरेत् ॥ २१ ॥ वंशस्थम् ।


सहाङ्ग मूलं मनसा जपन् क्रमाद् यथोक्तरूपां त्वरितां विचिन्तयेत् । तथा समावाह्य पुरोऽर्चिताम्बुजे हृदा स्थिरीकृत्य तु संनिधापयेत् ॥ २२ ॥

शिरसा सन्निरुध्य मूलेन प्रसेप्यामृतीकृत्य कवचेनावकुण्ठ्य हृदयेनार्घ्यपाद्याचमनानि दत्त्वा,

यजेत् तदङ्गान्यरुणानि षट् क्रमात् सुरेन्द्रपत्रादिषु रूपतः स्त्रियः । 'बि' ख ग. पाठः २. 'षाम्' क. पाठः ३ 'तं इये', ४. 'भम ख. पाट:.