पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मुद्राधिकारः] पूर्वार्धे एकविंशः पटलः। कर्णिकारलक्षहोभादपि प्राग्वत् फलम् । गन्धैः पुष्पैरपि धूपैश्च दीपैनैवेद्यैस्तामुपहारैर्निशायाम् ।

इष्ट्वाग्रे स्यात् प्रजपेदोदयात् तत् षड्भिर्मासैः स भवेद् वित्तनाथः ।। १५२ ।।

नित्यमर्धरात्रे पूजाजपाद्यैर्धनधान्यैश्वर्यवान् भवति । दष्टाल्याणैर्ग्रथितं शक्तिबीजं कुड्यादौ स्याल्लिखितं तद्विषघ्नम् । अभ्यस्याभुं लिखितं मार्जयेद् वा मन्त्रेणाम्भः परिषिञ्चेत् पिबेद् वा ॥ १५३ ।।

भूर्जे पत्रे लिखितं मूलमङ्गैर्धान्यादौ तन्निहितं वर्धयेत् तत् ।
इष्ट्वा देवी धनदं चापि तस्मिन् तेनालब्धं दशपुष्पं च धार्यम् ॥ १५४ ।।

अन्योन्यसंमुखौ हस्तौ सुश्लिष्टौ मुक्ततर्जनी । मध्यमाङ्गुष्ठसंयोगान्मुद्रैषा क्षोभणी स्मृता ॥ १५५ ।।

श्लिष्टाङ्गुलितलौ हस्तौ प्रसार्याङ्गुष्ठतर्जनी ।
कनिष्ठानामिकामध्यासंश्लेषान्मोहनी भवेत् ॥ १५६ ॥
तथैव श्लिष्टकरयोः प्रसार्योभयतर्जनी ।
मध्यमाङ्गुष्ठसंयोगपीडनाद् द्रावणी स्मृता ॥ १५७ ।। 

तद्वत् सुश्लिष्टकरयोस्तर्जनीद्वयपीडनात् ।

कर्षिणी स्यात् तथा मध्यातर्जाभ्यां ज्यैष्ठिकाद्वयम् ॥ १५८ ॥ 

निपीड्यं सान्निध्यकरी स्याच्छिष्टाङ्गुलि(विस ? वर्जनात् । अनामिके द्वे तर्जाभ्यामधः पाण्योर्निबध्य तु ॥ १५९ ॥

उत्तानपाणितलयोर्मध्यमें सकनिष्ठिके ।
पार्श्वाभ्यां संहताग्रे ते ऋज्वायतमवस्थिते ॥ १६० ॥ 

कृत्वाङ्गुष्ठाग्रयुग्मेन कनिष्ठामूलयोः स्पृशेत् । मुद्रेयं योनिसंज्ञा स्याच्छाक्तेयी सर्वसिद्धिदा ॥ १६१ ॥

मोहनी क्षोभणी योनिमुद्रा द्रावण्यपि क्रमात् ।
नृपसर्वस्त्रियां वश्य नराणां च नियोजयेत् (१)॥ १६२ ॥

मुद्राधिकारः। १. नीः' क. पाट:.