____________
ईशान शिवगुरुदेवद्धतौ मन्त्रपादः यावद् दर्पणविधिं साधयति, . तावच्छाकभैक्षयावककृसरान्नं खादेत् । सिध्यति । अष्टम्यां वा सूर्यवारे कुमारीं स्नातां सम्यग् भूषितां भोजयित्वा ।
क्षीरान्नाज्यं तत्र पूर्वेद्युरेनां प्रेक्षाकृत्ये शालिनीं दर्पणादेः | शालिनी ।
शुद्धे देशे दर्भशय्याधिरूढां मन्त्रेणैनां दर्पणं चाधिवास्य ।
प्रातःस्नातामर्चितां सूपविष्टां प्रेक्षाकृत्ये योजयेद्दर्पणान्तः ॥ १४४ ॥ रम्ये देशे गोमयेनोपलिप्ते पिष्टैः कृत्वा मण्डलं धूपदीपैः । रक्तैः पुष्पैर्दर्पणस्थां तु देवीमिष्ट्रा सर्व तत्र पश्येत् कुमारी ॥ १४५ ॥
तत्र सा कल्पवृक्षाधः सिंहासनस्थां प्रथमं देवीं दृष्ट्वा ततस्त्रिकालबद्धमभीष्टार्थं सर्वं पश्यति । अनेनैवाङ्गुष्ठादिषु प्रयोगो व्याख्यातः । पूजाधिकारः । स्वैक्यं ध्यायेदथ वा सिंहवाहां रौद्रां कृष्णां सकपालत्रिशूलाम् ।
तोये वाब्धौ द्रुतवातोर्मिमाळे न स्याद् भीतिर्विपिने वा रणे वा ॥ वातोर्मिः ।
शक्तिः साक्षं सलिलं चाथ मज्जा खं वह्निस्थं नयनं सर्वशब्दः । शक्तिं त्यक्त्वा चतुरोऽर्णान् पुरोक्तान् स्वाहान्तोऽसौ मनुरुक्तो विषमः ||
स्वैक्यं शुक्लां धृतकुम्भत्रिशूलां शुक्लाकल्पां शशिमौलिं त्रिनेत्राम् ।
संसिञ्चन्तीममृतैः कुम्भसूतैर्ध्यात्वा हन्याद् गरलं मन्त्रजापी ॥ १४८ ॥
यस्मिन् क्षेत्रे कुजवारेषु मृत्स्नां सप्तस्वद्यान्नवदिक्ष्वेष मन्त्री |
तत् स्वीयं स्यान्नवमासात् पुरस्ताद् भौमाश्विन्यामपि मध्याह्नकाले ॥ १४९ ॥ अमावास्यायां सप्तपञ्चाशद्धेटिके कालेऽप्येवम् । हस्तादित्ये धृतिसंख्येष्टकास्ता मन्त्री यावद् विलिखेद् यस्य संज्ञाम् ।
सोऽस्य स्निह्येत् तदर्भीष्टं च कुर्यात् सर्वान् मन्त्री वशयेत् स्पर्शनाद्यैः ॥ ईष्ट्वा देवीं पटगां स्थण्डिले वा रम्ये देशे रसलक्षैर्निशीथे ।
मन्त्री पुष्पैः पृथगस्तैः सुगन्धैर्नित्यं देव्याः पदयोः स्याद्धनेशः ॥ १५१ ॥ १. 'ले स्यात् ', २, 'ता' ख. पाठः