एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
पणपूजाधिकारः] पूर्वार्धे एकविंशः पटलः ।
सरोजमालिख्य तु पश्चचूर्णैर्निधाय तस्मिन् कलशं यथावत् । सपञ्चरत्नाम्बरमाल्यगन्धं शिवां समाबाह्य तु रौद्रसौम्याम् ॥ १३३ ॥. यजेच्च रुद्रावरणैरुपेतां शिवां समूलाङ्गविधानयुक्तया । सगन्धपुष्पाक्षतधूपदीपैश्चरूं निवेद्यात्र बलिं च दत्त्वा ।। १३४ ॥ धौतं विदोषं नरघातिनं प्रागगर्भरेखास्फुटितादिदोषम् ।
द्विजोपजातिव्यतिरिक्तखड्गं निधाय बिम्बे नृपजातिमिष्टा ॥ उपजातिः ।
क्षणेन शस्त्रेण हतं तु शूरं युवानमानीय मृतं सरक्तम् ।
आभूष्य रक्ताम्बरमाल्यगन्धैस्तं तस्य पाणौ विनिधाय खड्गम् ॥ १३६॥
स्पृष्ट्वा जपन् मूलमनुं स यावत् सचेतनः खड्गधरः परेतः । उत्थातुमिच्छेदसिमस्य हस्तात् प्रसह्य गृहीत नदन् प्रहृष्टः ॥ १३७ ॥
ततः शिवान्तैः परिवारमुख्यैरुद्धास्य तं खड्गवरं दधानः ।
स सार्वभौमोऽपि भवेद् यदीच्छेल्लोकेऽप्रधृष्यः खलु साधकेन्द्रः।। उपजातयः। अनेनैव प्रकारेण शूलाङ्गुलीयाञ्जनादिसाधनमपि व्याख्यातम् ।
खड्गसाधनाधिकारः। आयतिभूततदात्मनिबन्धान् संशयितानखिलानपि चार्थान् ।
दोधकचित्तविकारकृतस्तान् वेदयितुं प्रवदेऽहमुपायम् ॥ दोधकम् । एकदिनं समुपोष्य तु कृष्णां मातृतिथिं तनुतादुपाचारैः । एकशिवे महतीमपि पूजां षोडशपङ्करुहैः करवीरैः ॥ १४ ॥ क्षीरचरुं विनिवेद्य घृताढ्यं वह्निमुखेऽपि जुहोति तिलाज्यम् । जातिसमित्कुसुमान्नफलानामष्टसहस्रमितं पृथगुक्तम् ॥ १११ ॥ दर्पणमप्यतिनिर्मलमेकं निर्वृणमत्र निधाय तु देवीम् ।
सत्र यजेच्च जपेदथ मूलं भानुसहस्रमितं मुकुरस्पृक ॥ १२ ॥