एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
- ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः
शक्तिं रसपत्रसरोरुहे मध्ये च दलेषु बहिः स्वरान् । आलिख्य धृतं खलु योषितां कुर्यात् तनयं समुपस्थितम् ।। उपस्थितम् । मध्ये षडरस्य लिखेन्मनु स्वाख्याद्वयमस्य तु रन्ध्रयोः ।
बाह्ये धरणीभवनं लिखेत् स्नेहं प्रकरोति धृतं द्वयोः ॥ १२३ ।। त्रिष्टुभि- साख्यारिरूपं लिखितं कपाले षट्कोणगं मूलमपि श्मशाने ।
सन्तापयेत् तत् प्रजपन् निशायां स्यादिन्द्रवज्रामिहतो यथारिः।। इन्द्रवज्रा।
राजीर्मनुष्यास्थियुताः सलोणा राजीघृताक्ता जुहुयात् तु पक्षम् ।
मूलेन साध्याहृयकृत्ययुक्तं निर्मूलतः शत्रुरुपैति मृत्युम् ।। १२५ ॥ आजस्नुहिक्षीरसपादधूलीन् काकस्य पक्षान् जुहुयान्निशायाम् । मन्त्र जपन् मारुतसम्पुटस्थमुच्चाटयेत् सप्तदिनैररातिम् ॥ १२६ ।। काकारिकाकच्छदनैस्तु जुहत् साजासृजा स्नुक्पयसावसिक्तैः । स्थाण्वादिमूलेन तु सप्तरात्रं विद्वेषमाशु प्रकरोत्यरीणाम् ॥ १२ ॥ स्तम्भं च भूबीजपुटे प्रकुर्यादुत्सादनं चाग्निमरुत्पुटस्थम् । शान्ति च पुष्टिं जलसम्पुटस्थं यच्छक्तिबीजं हवने च जेप्ये ॥ १२८ ॥
साख्यं तु बीजं वलयद्वयस्थं बाह्यस्वरोपेतकलादलाब्जम् । भूबीजपाशाङ्कुशमूलकोणं वश्यं धृतं चक्रमिदं त्रिलोक्याम् ॥ १२९ ॥ षट्कोणशक्तौ निजनाम बाह्ये शक्तया च पाशाङ्कुशको विदर्भो ।
संवेष्टय वायोर्भवनं च बाह्ये वश्यं भवेन्नागदलं मुखस्थम् ॥ १३० ॥ अथोच्यते खड्गविशेषसिद्धिरवाप्य यामूर्जितवीर्यशौर्यः । विजित्य शत्रून् विचरेच्च लोकानुपेन्द्रवज्रायुधतुल्यलक्ष्मीः ।। उपेन्द्रवज्रा । विशुद्धदेशे विजने वनादौ विधौ तदन्तःसलिलेऽवगाश्च। चतुर्दशीरात्रिमुपोष्य कृष्णां पिशङ्गमाल्याम्बरचन्दनाढ्यः ॥ १३२ ॥-
1. 'त', ख. पाठ:. २. 'ल' क. पाठ:. ३. 'च' ख. पाठः. ४. 'स्वांस्वादि' स. पाठः, ५. 'मध्ये' ब., 'जप्येत्' क. पाठः ६. 'भूबिम्बपा. ग. पाठः.