एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
भ्युदयाधिकारः ] पूर्वा एकविंशः पटलः । दीर्घजलस्थः सोऽथ सबिन्दुः शक्तियुतोऽस्मात् पर्वतशृङ्गे ।
लक्षजपाद्यैर्दीर्घमिहायुः प्राप्यमिह स्याद् दौर्वहुताद् वा ॥ ११० ॥
कुम्भपुटस्था कुम्भजलस्था भानुसहस्रं तज्जपहोमात् !
हन्त्यपमृत्युं तज्जलसे काच्छक्तिरशेषान् हन्ति च रोगान् ॥ १११ ॥
आज्यसेचितामृता समिद्भिः कुम्भसंपुटं जुहोतु लक्षम् ।
संहरेदकालमृत्युभीतिं या मयूरसारिणी जनानाम् ॥ ११२ ॥ मयूरसारिणी । हस्तसप्तमीषु सूर्यवारे सूर्यमूर्ध्वबाहुरीक्षमाणः ।
वत्सरं जपेद् दिनेशलक्षं यक्ष्मरोगकांश्च हन्ति कुष्ठम् ॥ ११३ ॥
कुम्भसंपुटं चतुस्सहस्रं भस्म तज्जपेन हन्ति रोगान् । बातरोगहृत् तथैव तैलं पित्तहृद् घृतं कणाकफघ्नी ॥ ११४ ॥
पिप्पलीप्लिहां हरेच्च पथ्या कुक्षिरोगहृत् तथाखिलानि ।
औषधानि यानि तानि मन्त्री यद् ददाति तेन हन्ति रोगान् ॥ ११५ ॥
पञ्चविंशतिं जपेत् तु दुग्धं तत् पिबेत् स विन्दतेऽतिमेधाम् ।
अन्नमन्यदप्यनेन युक्तं भुक्तमायुषे श्रिये च भूयात् ॥ ११६ ॥ तण्डुलैर्दधिप्लुतैस्तु पुष्टिं कन्यकां मधुप्लुतैश्च लाजैः ।
विन्दते पशून् पयोघृताभ्यां चेज्जुहोतु साज्यमन्नमन्नम् ॥ ११७ ॥ पिप्पलैर्वशीकरोतु विप्रान् पङ्कजैर्नृपान् पलाशपुष्पैः ।
तत्त्स्रियं तु कैरवैर्विशोऽन्यांस्तैललोणकैर्हुतैस्तु लक्षैः ॥ ११८ ॥ संवनने मधुराक्तं सर्वं जुहुयाद् वदाम्यथाकृष्टौ ।
(का?ङ्का)राद्यं राज्ञामन्येषां भौतिकादिमन्त्रः स्यात् ॥ ११९ ॥
रक्तह्यारिसमिद्भिर्जुहुयाद् वटवृक्षमूलगो रात्रौ ।
E लक्षत्रयं घृताक्तैर्मन्त्री पश्येत् तु यक्षिणीं वरदाम् ॥ १२० ॥
सध्यानं शतलक्षं शक्तयभ्यासाद् विशुद्धदेशान्नम् । लभतेऽष्टगुणैश्वर्यं दशकोट्या खेचरो भवेदमरः ॥ १२१ ॥
अभ्युदयाधिकारः । 1. 'घ' क. पाठः २. 'थ्यं'. ३. 'न' ख पाठः ४० 'नः' ग. पाठः.