पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ

पलाशकाथपूरितकलशद्वयं द्वारचतुष्टये पृथक् पृथग् विन्यस्य रक्षार्थ तेषु तेषु जयादिशक्तीरर्चयेत् ।

शैवोक्तं तु विधानमाश्रितो दीक्षायामधिवासनादिकम् । कुर्याद वाप्यथ मन्त्रदीक्षया शक्तयङ्गैरपि शक्तिबीजतः ॥ १९ ॥ मधुरैस्त्रिभिः सहस्रं हुत्वा संपातशोधितं त्वाज्यम् ।

कलशेषु तेषु दत्त्वा तैरभिषिक्तं तु दीक्षयेच्छिष्यम् ॥ १० ॥ अश्वत्थखदिरजातीबिल्वसमिद्भिश्च सर्वधान्यतिलैः । 

चरुणाज्येन च हुत्वा बिम्बे चेष्ट्वाधिवासयेदेनम् ।। १०१ ॥ शिष्यं तं गुरुरधिवास्यैनं सुस्वप्नैर्निशि विदितोदर्कम् ।

मङ्गल्यैः सह पणवातोद्यैर्गीताद्यैरपि तनुताद् दीक्षाम् ॥ १०२ ॥ पणवम् ।
एवं प्राप्य तु दीक्षां गुरोर्मुखात् प्राप्तशक्तिमन्त्रोऽसौ । 

ध्यानजपार्चनहोमैरिष्टान् संसाधयेन्नरः कामान् ॥ १०३ ॥ शक्तिदीक्षाधिकारः। पूजितवह्नेस्तस्य हृदब्जे सावरणाङ्गां शक्तिमथेष्ट्वा ।

पङ्कजलक्षैर्बिल्वघृतान्नैरस्य हुतैः स्याद् रुक्मवती श्रीः॥१०४ ॥ रुक्मवती ।

अष्टसहस्रं वाष्टशतं वा प्रत्यहमुक्तैर्द्रव्यविशेषैः । यज्जुहुयात् प्राक्च्छिष्टमथाज्यं बिल्वफलं च श्रीकरमद्यात् ॥ १.५ ॥ समृद्धिविषये ध्यानमुच्यते पाशसरोजे चाकुशशङ्खावादधतीं तां हेमनिकाशाम् ।

षण्मुखयुक्तां हृदयथ वह्नौ पूजयतः स्याच्छ्रीः शरलक्षैः ॥ १०६ ॥

पद्मोद्भवेऽन्ते श्रीशक्तिबीजमुक्तं नमोन्तकम् । जपन् जुह्वद् यथापूर्वं लभते धनसम्पदः ।। १०७ ।। कल्पनगाधो हाटकपीठे स्वैक्यमुमाख्या हाटकवर्णाम् ।

अनिविष्टस्कन्दशिशुं तां संस्मरतः स्याल्वक्षजपाच्छ्रीः ॥ १०८ ॥

आदौ शङ्खनिधिः पाशशक्तिबीजाङ्कुशानि च ।

अन्ते पद्मनिधिश्चामेर्जाया चैवं जपेच्छ्रियै ॥ १०९ ॥