पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेव पद्धतौ मन्त्रपादः पद्मासना च त्रिमुखी ततः सप्तमुखी स्मृता ।

देवासुरविमर्दिन्या लम्बोष्ठी लम्बकेशिनी ॥ ७९ ॥ 

ऊर्ध्वकेशी बहुलिङ्गा ततः ख्याता बहूदरी । रथरेखा शशिरेखा तद् गगनवेगिका ॥ ८० ॥ - वायुवेगानङ्गरूपा चानङ्गमदनाह्वया । तद्वद् भुवनपाल्याख्या ततश्चानङ्गमेखला ।। ८१ ।।

[ मदनातुरसंज्ञा चाप्यनङ्गकुसुमाह्वया । विश्वरूपा भवेत् पश्चात् तथासुरभयङ्करी || ८२ ॥ सुररक्षिणिकाक्षोभ्या सत्यवादा शुचिव्रता । वज्रवेगा च वरदा वागीशी चेति शक्तयः ॥ ८३ ॥ चतुःषष्टिरिमाः सर्वाः सर्वाश्चित्राम्बरस्रजः । स्वनामानुगुणाकाराश्चारुरूपा विभूषिताः ॥ ८१ ॥ ध्यात्वा नमोन्तं तारादि पूजयेदखिलावृतीः । हिमवच्छिखरोद्याने रत्नकल्पतरोधः ॥ ८५ ॥

रत्नसिंहासनाम्भोजे पादपीठोपशोभिते ।

स्वासीनां पूजयेद् ध्यात्वा प्रोक्तरूपादिकामुकाम् ॥ ८१ ॥ अथ बृहत्याम् - इति यजनविधिं बुद्ध्वा प्रतिदिवस मियं पूज्या । भुजगशिशुसृतां बुद्धिं सुदृढमृजुगतिं कृत्वा ॥ भुजगंशिशुसृता ।

हृदयसरसिजेऽप्येवं यजतु सुमनसा शक्तिम् । 

बहिरपि च शुभैर्द्रव्यैर्विभवसमुचितैर्नित्यम् ॥ ८८ ॥ एकादशावरंणपूजाधिकारः । अपिच अम्बिकां नवघनरुचिं सुन्दरीं तरुणवयसम् । भूषितां कनकमणिभिस्त्रीक्षणामरुणवसनाम् ॥ ८९ ॥ हलमुखी । ३. 'ण' ख. पाठः. २. 'क्षिका' ग. पाठः ३. 'घी' क पाठः