पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________ मन्त्रपादः ६२ उष्णहि

--- इशान शिवगुरुदेवपद्धतौ खपङ्कजशशाङ्के परामृतरसार्द्रे । चितिं भगवतीं तां कुमारललिताङ्गीम् ॥ ४१ ॥ कुमारललिता ।

विभाव्य निजपाणौ स्थिते कुसुमपूरे ।

नियोज्य गगनाब्जाज्जपन् मनसि शक्तिम् ॥ ४२ ॥ यथोक्तवपुषं तां सपीठकमलेऽस्मिन् । निवेशयतु देवीं स्थिरां हृदयजापी ॥ ४३ ॥ आवाह्याथ स्थापनसान्निध्ये रोधनावकुण्ठाख्ये । तद्वत् प्ररोचनान्तं स्वाङ्गैर्मूलान्वितैः क्रमात् कुर्यात् ॥ ४४ ॥ ततस्तु हृदार्घ्यमपि पाद्यं तथाचनमनात् । प्रदेयमपि मूलाद् यथास्नपनमङ्गैः ॥ ४५ ॥ वराम्बरविभूषाः सजोऽपि च सुगन्धान् । सुधूपमपि दीपं ददातु निजमूलात् ॥ ४६ ॥

चरुं च विधिसिद्धं तथैव परमान्नम् । 

फलामुपदंशैः समोदकगुलाज्यम् ॥ ४७ ॥

निवेद्य तु समूलं तथाम्बु च सुगीतम् ।
सुगन्धिमुखवासं हृदा खलु निवेद्यम् ॥ ४८ ॥

रोक्तपरिवरान् यथावदुपपत्त्या । सगन्धकुसुमाद्यैर्यजेत् तु मनसा वा ॥ ४९ ॥ प्राग्वत् । पीठबहिष्कोण गतान् बालतनून् हस्तिमुखान् । माणवक्रीडितकानीशदिशाद्यासु यजेत् ॥ ५० ॥ माणवकक्रीडितकम् शशफरान् साङ्कुशकांस्तानरुणखग्वसनान् । चमकाने करदान् स्वानरान् स्वर्णनिभान् ॥ ५१ ॥ वाय गणाध्यक्षाय गणनाथाय गणेश्वराय । स्वबीजप्रणवादिनमो 1