पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

इंशानशिवगुरुदेवपद्धतौ [मन्त्रपाद:

गन्धपुष्पसर्षपाः कुशाग्रकेण 

तथाक्षताश्च दूर्वया सुगन्धतोयम् ।

पूरयेत् तु शाक्तमघ्य॑मादरेण

यवान्वितं तु नामतोऽर्चयेत् तदुक्तम् ॥ २२ ॥ यवमती । प्रोक्षयेत् समस्तकं तु कूर्चकेन तदाश्रयं च चन्दनादिवस्तुजातम् । वेदकोणरत्नमण्डपं तदेव विभावयेत् तु तत्र रत्नसिंहपीठम् ॥ २३ ॥ शक्तिमस्य चाप्यधोऽरुणां यजेत (तु) तथैव धर्मपूर्वकांस्तु पीठपादान् । तस्य मध्यतोऽरुण सरोरुहं(च) चतुर्युगाधरच्छदं तदष्टपत्रम् ।। २४ ॥

तस्य षोडश स्वरास्तु केसराणि समण्डलत्रया विशालकर्णिका स्यात् ।
अष्ट शक्तयो भवन्ति केसरेषु जयादिकाः सुमङ्गला तु कर्णिकायाम् ॥ २५॥

जयायै विजयायै अजितायै अपराजितायै नित्यायै विलासिन्यै शौएड्यै अघोरायै सुमङ्गलायै । सर्वत्र प्रणवादिनमोन्तमर्चने समानम् । कोणपत्रगानि वै हृदादिकानि पुरस्तु नेत्रमस्य दिग्दलेषु चास्त्रम् ।

पूजयेद् बहिः क्रमेण दिग्विदिक्षु अनङ्गरूपिकादिकाः सुवेषदूतीः ॥ २६ ॥ ___ अनङ्गरूपायै अनङ्गमदनायै मदनानुरायै पवनवेगायै भुवनपालायै सर्वशिशिरायै अनङ्गदमनायै अनङ्गमेखलायै । प्रणवादिनमोन्तं पद्मबाह्ये पीठेऽर्चयेत् ।

ताः स्वर्णकलशदर्पणताम्बूलच्छत्रतालवृन्तशुकान् ।

चामरमाल्यकरण्डे बिभ्राणाश्चारुरूपरक्ताङ्गयः ॥ २७ ॥

अथ भगवतीं शक्तिं वक्ष्यमाणरूपादिकां ध्यात्वावाद्यार्चयेत् । अरुणतरुणकमलदलचरणयुगनखमणिरुचिजितशशिरिह या (?) । उपरिचरणयुगलमुपरिनिखिलजगति निरुपमकृति न खलु निगदितुम् ॥२८॥ क्षमत इति जघनमपि तनुतदुदरमथ च कुचकलशभुजयुग(लं)। मलमुत किमु मुखसरसिजमयुगनयनजितकुवलयमुरुचिहुरशिखौ ॥ २९ ॥ शिखा नाम चूलिका ।

सकल भुवगभवननिलयसुरविति(ज)दनुजमनुजभुजगवरयुवतीः । विलसदाकविमलाहि नासिरा नमबरणयुबतीः ॥ ३०॥

. .. ... .. ', ३. "cri' स. पा.