पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

श्रीहृदयम्] पूर्वार्धे एकोनविंशः पटलः ।

विष्णुर्नाम मुनिः स्याच्छन्दस्तज्जागतं तथा दैवम् ।
लक्ष्मीहि भुवनवन्द्या कथितास्याङ्गानि वक्ष्यामि ॥ ५ ॥ प्राग्वत् । ____ओं लक्ष्म्यै हृदयाय नमः । ओं श्रियै शिरसे ठठ । ओं देवजुष्टायै शिखायै वषट् । ओं मायायै कवचाय हुम् । ओं श्रीं हुं फट् अस्त्राय फट् । ओं हं सः । अनेन दशदिग्बन्धः ।

दीक्षां प्राप्य तु विद्यां गृहीयात् फाल्गुने तु फल्गुन्याम् ।

इष्टेऽपि तिथिमुहूर्ते निजजन्मादिपथ्येऽह्रि ।। ६ ॥ मुखपथ्या । उत्तरपदसंस्थेऽर्के स्नातः सितगन्धमाल्यनववसनः ।
आर्यामपि गजवदनं देशिकमिष्ट्वा मनुं जपतु ॥ ७ ॥ इयमप्यार्या ।
प्राग् जपतु नदीतीरे बिल्वे च गिरौ मुकुन्दशिवगृहयोः । 

लक्षं पृथगथ कथित ध्यानविधानेनं तां यजतु ॥ ८ ॥

भूसरसिजमध्यस्थो मेरुः पृथुकर्णिकास्य भवति तथा । पर्यन्तकनकशिखरान् केसरजालान् विभावयतु ।। ९॥
तस्य तु कमलस्यासौ संविश्य तु मध्यदेशमतिरुचिरम् । ऋज्वायततनुरचलः संयतचित्तः स्वयं भवति ॥ १० ॥ 

पद्मं सहस्रपत्रं नाभेरार्वाक् तु मिहिरशतरुचिरम् ।

ध्यायेत् तारककर्णिकमत्र तदरुणं तु शक्त्यर्णम् ॥ ११ ॥
हृत्पद्मेऽष्टदलाढ्ये स्मरेत् तु माबीजमाकनकनिर्भम् । 

दशशतपत्रमथाब्जे भ्रूमध्ये शक्तिबीजमपि ॥ १२ ॥ मूर्न्ध्य॑ब्जे शतपत्रे सबिन्दुकुम्भं च टान्तमतिधवलम् । स्मरतु सुधाप्लववर्षावर्वाग् (१) वक्राम्बुजं तदपि ।। १३ ॥

प्रथमकमले तु शक्तिं घण्टास्वनतुलितरुचिररवमधुराम् । 

जपतु मनसैव हृदयंगपङ्कजसौषुम्नमार्गान्तम् ॥ १४ ॥ एते त्वार्याविशेषाः । हत्पद्मे श्रीबीजं दीपनिभं शक्तिनादसम्भिन्नम् । उपरि ततोऽपि च पथ्यां प्राप्य सुषुम्नां व्रजेद् बिन्दुम् ॥ इयमपि पथ्या । १. 'वदर्जु' २. 'ति' सपा ३. 'म' क. ख पाठः ४. 'भाम'