पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ (मन्त्रपादः नमो भगवतीत्यथो पदयुगं च वाग्देवि ठ द्वयान्मनुरयं पुरः कथितकृत्यसिद्धिर्मतः ॥ ४६ ॥

प्रज्ञां मेधां श्रुतिं शक्तिं स्मृतिं वागीश्वरी मतिम् ।

स्वस्ति चेति वदन्त्यन्ये शक्तिर्वागीश्वरीमनोः ॥ ४७ ॥ कदम्बगोलकाकृति हृदम्बुजे सरस्वतीं ____ पतङ्गबिम्बदीधितिंं विचिन्तयेद् विमुक्तये ।

सपद्मविन्दुमध्यगां शरच्छशाङ्करोचिषं

स्रवत्सुधारसप्लवां भवच्छिंद विभावयेत् ॥ ४८ ॥

गगनकमलपूर्णचन्द्रे सुधाप्रसरगलितवारिधाराः स्मरन् । 

उषसि च गिरमेष सन्तर्पयन् भवति विभवमेत्य वागीश्वरः ॥ १९ ॥ इत्थं प्रोक्तं वागैश्चर्यान्मन्त्रेज्याद्यं सामान्यार्थम् ।

विज्ञायेष्टं वागैश्वर्यं विन्देल्लोके सामान्यार्थम् ॥ ५० ॥
इति श्रीमदीशानाशिवगुरुदेवपद्धतौ तन्त्रसारे

वागीश्वरीपटलोऽष्टादशः। अथ एकोनविंशः पटलः । अत्र गणवृत्तमात्रावृत्तच्छन्दोवृत्तानां लक्ष्यलक्षणोदाहरणभूताः श्लोका लिख्यन्ते । सा जयति जगत्यम्बा लक्ष्मीः करुणाकटाक्षपरिपतनात् । रक्षत्यभिमतविभवैर्या जनमार्या स्वपोष्यमिव ।। १ ।। आर्यां ।

धान्यानि गोहिरण्यं क्षेत्रं राज्यं च विभवतुरगगजान् ।
स्त्रीरत्नान्यपि पुष्यति यत्पदकमलस्मृतिर्लोके ॥ २ ॥ प्राग्वत् ।
वान्तो वह्वयारूढो योजितवामाक्षिबिन्दुनादाढ्यः ।
मनुरुदितः खलु लक्ष्म्या यो जपपथ्याशु सिद्धयै स्यात् ॥ ३ ॥ पथ्या। शक्त्यायन्तपुटस्थः श्रीहृत्संज्ञस्तु मन्त्रराजोऽयम् ।
ध्यानेन गुरुमुखाप्त: फलदो गाथासमोऽन्यस्मात् ।। ४ ।। पथ्यागाथा।