पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

.. . . सिद्धवागीश्वराविधानम् ] पूर्वार्धे अष्टादशः पटलः । स मन्त्रतनुरादृतो दिनमुखे सहस्रं जपन् भवेत् स खलु वत्सरात् सकलशास्त्रपारङ्गतः ॥१०॥ दशोत्तरशतं जलं समभिमन्त्र्य काल्यं पिबे ज्जले हृदयमात्रके जपतु वा त्रिसाहस्रकम् ।

सहसमथवा जपेदुषसि मन्त्रसन्नाहितो

हुतैरपि च वत्सराद् भवति बिल्वकैः काव्यकृत् ॥ ४१ ।।

पलाशकुसुमैर्हुतैः प्रतिनवैः समिद्भिस्तु वा

लभेत कवितां तथा श्रियमपीह मालूरकैः ।

पिबेत् कमलजाह्वयाघृतमनेन वा मन्त्रितं - 

गृहे सितवचान्वितं सपदि यच्छूतं धारयेत् ॥ ४२ ॥ . 'किमत्र बहुभाषितैर्हि मनसोऽस्य यद् वाञ्छितं तदस्ति नहि दुर्लभं त्रिभुवनोदरे विद्यया ।। जगद्विपदपाकृतिस्थितविभूतिकृत्येप्सया भजत्यपि ह यां स्वयं कमलभूः कथं वर्ण्येते !! ४३ ॥

पलण्डुमपि गृञ्जनं तुषजलं रसोनं तथा

कलञ्जबृहदालुपज्जपहणि तथाम्लातकम्

न भक्षयतु सिद्धये निशि तथैव ताम्बूलकं
दिवा न भजतु स्त्रियं भजति चेत् स वागीश्वरीम् ॥ १४ ॥

दशाक्षरीवागीश्वरीविधानम् ।

पुरः प्रणवशक्तियुग् भवति सैव पङ्कतयक्षरा

जगद् वशयतीह या प्रथितसिद्धवागीश्वरी ।

पुरश्चरणकं जपेत् तरणिसंख्यलक्षं पुनः

सगुग्गुलपयोम्बुजैरपि सपादलक्षं हुतम् ॥ ४५ ॥ निजार्णयुगलैः पृथक् कथितमङ्गषट्कं क्रमाद् विधानविनियोजनं सममिहापि पूर्वोदितैः । ... 'जि . पा. १. क. पारः .. ३. ofit , पाट.. ४.. ख. पाठ: