पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दशाक्षरीवागीश्वरीविधानम् ] पूर्वार्धे अष्टादश: पटलः । कराहितकपालकत्रिशिखेमिष्टमुद्रान्वितं त्रिणेत्रमहिभूषणं गजतरक्षुचर्माम्बरम् ॥ २७ ॥ परेतकमलासनं सुभटमुण्डमालाधरं

सुरासुरनुतं विभुं नमत भैरवं भूतये ।

पारुणरुचिं विभुं गजमुख प्रलम्बोदरं सपाशमपि चाङ्कुशं दधतमात्मदन्तं फलम् ॥ २८ ॥ शशाङ्ककृतशेखरं त्रिनयनं लसद्भूषणं नतोऽस्मिं गणनायकं गगनमूर्तिमिष्टप्रदम् । समाहितमनास्त्विमान् दुरितदुःखविघ्नापहान् प्रणम्य कमलोदरे भगवतीं समावाहयेत् ॥ २९ ॥

मृगाङ्कमणिचन्द्रिका कुमुदषण्ड कुन्दद्युर्ति

शशाङ्कशकलोल्लसज्जटिलमौलिकां त्रीक्षणाम् । सिताम्बरविलेपनाममलहारहारिस्रजं घृताभयविलेखिनीं वरदपुस्तकां भारतीम् ॥ ३० ॥

तथाङ्गमनुभिः क्रमाद् यजतु चोपचारैरिमां
विशुद्धगुळपायसं सघृतमस्तु नैवेद्यकम् ।
पटेडथ फलकेऽथवा समभिलिख्य चित्रे यजे

न्न चेद् रुचिरपुस्तके लिखितपङ्कजे पूजयेत् ॥ ३१ ॥ स्वपङ्कजगतां तु वा सवितृबिम्बमध्येऽथवा जलेsपि निजवाञ्छया विभवसारसाम्यं यजेत् । निजाङ्गवृति दितस्तदनु शक्तिभिर्मातृभि

स्तदाह्वयनमोन्तकं यजतु वक्ष्यमाणक्रमात् ॥ ३२ ॥ ओं योगायै नमः । ओं सत्यायै नमः । ओं विमलायै नमः | ओं बुद्धये नमः | ओं स्मृतये नमः । ॐ मेधायै नमः । ॐ श्रद्धायै नमः । सपुस्तकजपत्रजो विमलहारमाल्योज्ज्वलाः शशाङ्करुचिरप्रभाः प्रतिदलामगाः शक्तयः । ४११. 'खमक्षमु' क. ग. पाठ:. C: